TBD.
अच्छशब्दः अव्ययम् अभिशब्दस्य अर्थे वर्तते। स गत्यर्थेषु धातुषु वदतौ च गतिसंज्ञो भवति। अच्छगत्य। अच्छगतम्। यदच्छगच्छति। वदतौ अच्छोद्य। अच्छोदितम्। यदच्छवचति। अव्ययम् इत्येव, उदकम् अच्छं गच्छति।
TBD.
–
760 अच्छगत्येति। गतिसमासे क्त्वो ल्यप्। अच्छोद्येति। वदधातोः क्त्वा। गतिसमासे क्त्वो ल्यप्। अच्छेत्यव्ययमाभिमुख्ये। तद्यथा–बर्हिरच्छैतीति। तदाह–अभिमुखमिति। जलमच्छं गच्छतीति। अत्राऽच्छशब्दस्य नाव्ययत्वं, न गतिसंज्ञा, नापि `प्राग्री\उfffदारान्निपाताः' इत्यधिकृतनिपातसंज्ञा। निपातत्वे सति हि अव्ययत्वाद्विभक्तिलुक्। स्यादिति भावः।
670 अच्छमिति। सत्यां हि गतिसंज्ञायां निपातसंज्ञावत्त्वेनाव्ययत्वात्सुब्लुक् स्यादिति भावः। अदःस कृत्येति। यदा स्वयमेव पर्यालोचयति तदेदमुदाहरणम्।
TBD.