Table of Contents

<<1-4-70 —- 1-4-72>>

1-4-71 तरो ऽन्तर्धौ

प्रथमावृत्तिः

TBD.

काशिका

अन्तर्धिः व्यवधानम्। तत्र तिरःशब्दो गतिसंज्ञो भवति। तिरोभूय। तिरोभूतम्। यत् तिरोभवति। अन्तर्धौ इति किम्? तिरो भूत्वा स्थितः। पार्श्वतो भूत्वा इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

762 तिरोऽन्तर्धौ। अन्तर्धि=व्यवधानम्, तत्र तिरसित्यव्ययं गतिसंज्ञकं स्यादित्यर्थः। तिरोभूयेति। गतिसमासे क्त्वो ल्यप्। व्यवहितो भूत्वेत्यर्थः।

तत्त्वबोधिनी

672 किरोऽन्तर्धौ। अन्तर्धौ किम्?। तिरोभूत्वा स्थितः। पार्\उfffदातो भूत्वेत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.