Table of Contents

<<1-4-67 —- 1-4-69>>

1-4-68 अस्तं च

प्रथमावृत्तिः

TBD.

काशिका

अस्तंशब्दो मकारान्तो ऽव्ययम् अनुपलब्धौ वर्तते। स गतिसंज्ञओ भवति। अस्तंगत्य सविता पुनरुदेति। अस्तंगतानि धनानि। यदस्तं गच्छति। अव्ययम् इत्येव, अस्तं काण्डम्। क्षिपतम् इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

759 अस्तं च। पूर्वसूत्रादव्ययमित्यनुवर्तत इत्याह–मान्मव्ययमिति। अस्तङ्गत्येति। तिरोधानं प्राप्येत्यर्थः। अव्ययं किं ?। काण्डमस्तं कृत्वा। प्रक्षिप्तं कृत्वेत्यर्थः। अच्छ गत्यर्थ। गत्यर्थधातुषु, वदधातौ च प्रयुज्यमानेषु अच्छेत्यव्ययं गतिसंज्ञं स्यात्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.