Table of Contents

<<1-4-66 —- 1-4-68>>

1-4-67 पुरो ऽव्ययम्

प्रथमावृत्तिः

TBD.

काशिका

असिप्रत्ययान्तः पुरःशब्दो ऽव्ययम्। स गतिसंज्ञो भवति। समासस्वरोपचाराः प्रयोजनम्। पुरस्कृत्य। पुरस्कृतम्। यत् पुरस् करोति। अव्ययम् इति किम्? पूः, पुरौ। पुरः कृत्वा काण्डं गतः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

758 पुरोऽव्ययं। पुर इत्यव्ययं गतिसंज्ञकं स्यात्। पुरस्कृत्येति। गतिसमासे क्त्वो ल्यप्। अव्ययं किम् ?। पुरम्, पुरौ, पुरः कृत्वा गतः।

तत्त्वबोधिनी

669 पुरस्कृत्येति। `पूर्वधरावराणा'मित्यसिप्रत्ययान्तोऽयमव्ययम्। `नमस्पुरसो'रिति विसर्गस्य सः। `अमुं परः पश्यसी'त्यत्र तु` स्थित'मित्यध्याहारेण दृशि प्रत्ययतित्वात्सत्वाऽभावः। अव्ययं किम्?। पुरं पुरौ पुरः कृत्वा गतः। अस्तं च। अवययमिति किम्?। अस्तं कृत्वा काण्डं गतः। क्षिप्तमित्यर्थः।

Satishji's सूत्र-सूचिः

TBD.