Table of Contents

<<1-4-63 —- 1-4-65>>

1-4-64 भूषने ऽलम्

प्रथमावृत्तिः

TBD.

काशिका

अलम् इति प्रतिषेधे, सामर्थ्ये, पर्याप्तौ, भूषणे च इति विशेषनम् उपादीयते। भूवणे यो ऽलंशब्दः स गतिसंज्ञो भवति। अलङ्कृत्य। अलङ्कृतम्। यदलङ्करोति। भूषणे इति किम्? अलं भुक्त्वा ओदनं गतः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

755 भूषणेऽलम्। भूषणे विद्यमानमलमित्यव्ययं गतिसंज्ञकं स्यादित्यर्थः। अलंकृत्येति। कटकादिधारणेन परिष्कारं कृत्वेत्यर्थः। भूषणे विद्यमानमलमित्यव्ययं गतिसंज्ञकं स्यादित्यर्थः। अलंकृत्येति। कटकादिधारणेन परिष्कारं कृत्वेत्यर्थः। कृञ्विषयेति। कृञ्योग एव भवतीत्यर्थः। वस्तुतस्तु सङ्कोचे प्रमाणाऽभावाद्धात्वन्तरयोगेऽपि त्रिसूत्रीप्रवृत्तिर्युक्ता। अत एव `अलं भुक्त्वा ओदनं गत' इति वृत्तिकृता प्रत्युदाह्मतम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.