Table of Contents

<<1-4-63 —- 1-4-65>>

1-4-64 भूषने ऽलम्

प्रथमावृत्तिः

TBD.

काशिका

अलम् इति प्रतिषेधे, सामर्थ्ये, पर्याप्तौ, भूषणे च इति विशेषनम् उपादीयते। भूवणे यो ऽलंशब्दः स गतिसंज्ञो भवति। अलङ्कृत्य। अलङ्कृतम्। यदलङ्करोति। भूषणे इति किम्? अलं भुक्त्वा ओदनं गतः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

755 भूषणेऽलम्। भूषणे विद्यमानमलमित्यव्ययं गतिसंज्ञकं स्यादित्यर्थः। अलंकृत्येति। कटकादिधारणेन परिष्कारं कृत्वेत्यर्थः। भूषणे विद्यमानमलमित्यव्ययं गतिसंज्ञकं स्यादित्यर्थः। अलंकृत्येति। कटकादिधारणेन परिष्कारं कृत्वेत्यर्थः। कृञ्विषयेति। कृञ्योग एव भवतीत्यर्थः। वस्तुतस्तु सङ्कोचे प्रमाणाऽभावाद्धात्वन्तरयोगेऽपि त्रिसूत्रीप्रवृत्तिर्युक्ता। अत एव `अलं भुक्त्वा ओदनं गत' इति वृत्तिकृता प्रत्युदाह्मतम्।

तत्त्वबोधिनी

–

Satishji's सूत्र-सूचिः

TBD.