Table of Contents

<<1-4-62 —- 1-4-64>>

1-4-63 आदरानादरयोः सदसती

प्रथमावृत्तिः

TBD.

काशिका

प्रीतिसंभ्रम आदरः। परिभवौदासीन्यम् अनादरः। आदरानादरयोः यथाक्रमं सदसच्छब्दौ गतिसंज्ञौ भवतः। सत्कृत्य। सत्कृतम्। यत्सत्करोति। असत्कृत्य। असत्कृतम्। यदसत्करोति। आदरानादरयोः इति किम्? सत्कृत्वा काण्डं गतः। असत्कृत्वा काण्डम् गतः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

754 आदरानादरयोः। सदिति असदिति च अव्यये आदराऽनादरयोः क्रमेण विद्यमाने गतिसंज्ञके स्त इत्यर्थः। सत्कृत्येति। आदरं कृत्वेत्यर्थः। असत्कृत्येति। अनादरं कृत्वेत्यर्थः। गतिसमासे क्त्वो ल्यप्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.