TBD.
अन्तःशब्दो ऽपरिग्रहे ऽर्थे गतिसंज्ञो भवति। परिग्रहः स्वीकरणम्। तदभावे गतिसंज्ञा विधीयते। अन्तर्हत्य। अन्तर्हतम्। यदन्तर्हन्ति। अपरिग्रहे इति किम्? अन्तर्हत्वा भूषिकाम् श्येनो गतः। परिगृह्य गतः इत्यर्थः। अन्तःशब्दस्य अङ्किविधिणत्वेषु उपसर्गसंज्ञा वक्तव्या। अन्तर्धा। अन्तर्धिः। अन्तर्णयति।
TBD.
–
756 अन्तरपरि। अपरिग्रहे वर्तमानमन्तरित्यव्ययं गतिसंज्ञकं स्यादित्यर्थः। हतं परिगृह्रेति। हत्वा गमनं हतमपरिगृह्र परिगृह्र वा भवति। तत्र आद्यमुदाहरणं, द्वितीयं प्रत्युदाहरणमित्यर्थः। अपरिग्रह इति प्रयोगोपाधिरेव, न तु वाच्यकोटिप्रविष्टम्।
667 हतं परिगृह्रति। हत्वा गमनं द्विधा, हतं त्यच्त्वा परिगृह्र चेति। आद्यमुदाहरणं, द्वितीयं तु प्रत्युदाहरणम्।`अपरिग्रहे'इति च प्रयोगोपाधिः, नतु वाच्यकोटिनिविष्टमिति भावः।
TBD.