Table of Contents

<<1-4-53 —- 1-4-55>>

1-4-54 स्वतन्त्रः कर्ता

प्रथमावृत्तिः

TBD.

काशिका

स्वतन्त्रः इति प्रधानभूत उच्यते। अगुणीभूतो, यः क्रियासिद्धौ स्वतन्त्र्येण विवक्ष्यते, तत् कारक्ं कर्तृसंज्ञं भव्ति। देवदत्तः पचति। स्थाली पचति। कर्तृप्रदेशाः कर्तृकरणयोस् तृतीया 2-3-18 इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

896 क्रियायां स्वातन्त्र्येण विवक्षितोर्ऽथः कर्ता स्यात्..

बालमनोरमा

551 अथ तृतीया। स्वतन्त्रः कर्ता। कारकाधिकारात्क्रियाजनने स्वातन्त्र्यमिह विवक्षितमित्याह–क्रियायामिति। स्वातन्त्र्यमिह प्राधान्यमिति भाष्ये स्पष्टम्। ननु स्थाली पचतीत्यादौ कथं स्थाल्यादीनां कर्तृत्वं, स्वातन्त्र्याऽभावादित्यत आह- -विवक्षितोऽर्थ इति। `विवक्षातः कारकाणि भवन्ती'ति भाष्यादिति भावः। स्वातन्त्र्यं च धात्वर्थव्यापाराश्रयत्वम्। फलानुकूलव्यापारो धात्वर्थः। तत्र पचतीत्यत्र विक्लित्रिरूपफलाश्रये तण्डुलेऽतिव्याप्तिवारणाय व्यापारेति। उक्तं च हरिणा– `धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते।'इति। धातूपात्तव्यापारवतीत्यर्थः।

तत्त्वबोधिनी

494 स्वतन्त्रः कर्ता। प्रधानभूतधात्वर्थाश्रयत्वं स्वातन्त्र्यम्। आह च– `धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते'इति। स्थाल्यादीनां वस्तुतः स्वातन्त्र्याऽभावेऽपि `स्थाली पचति काष्ठानि पचन्ती'त्यादिप्रयोगोऽपि साधुरेवेति ध्वनयति—विवक्षितोऽर्थ इति।

Satishji's सूत्र-सूचिः

446) स्वतन्त्रः कर्ता 1-4-54

वृत्तिः क्रियायां स्‍वातन्‍त्र्येण विविक्षतोऽर्थः कर्ता स्‍यात् । Whatever the speaker chooses as the independent, principal source of action is called कर्ता or agent.