Table of Contents

<<1-4-50 —- 1-4-52>>

1-4-51 अकथितं च

प्रथमावृत्तिः

TBD.

काशिका

अकथितं च यत् कारकं तत् कर्मसंज्ञं भवति। केन अकथितम्? अपादानादिविशेषकथाभिः। परिगणनं कर्तव्यम् दुहियाचिरुधिप्रच्छिभिक्षिचिञाम् उपयोगनिमित्तम् अपूर्वविधौ। ब्रुविशासिगुणेन च यत् सचते तदकीर्तितम् आचरितं कविना। उपयुज्यते इत्युपयोगः पयःप्रभृति। तस्य निमित्तं गवादि। तस्य उपयुज्यमानपयःप्रभृतिनिमित्तस्य गवादेः कर्मसंज्ञा विधीयते। पाणिना कांस्यपात्र्यां गां दोग्धि पयः। पाण्यादिकम् अप्युपयोगनिमित्तं, तस्य 86 कस्मान् न भवति? न एतदस्ति। विहिता हि तत्र करणादिसंज्ञा। तदर्थम् आह अपूर्वविधौ इति। ब्रुविशासिगुणेन च यत् सचते। ब्रुविशास्योर् गुणः साधनम्, प्रधानं, प्रधानं कर्म, धर्मादिकम्, तेन यत् सम्बध्यते, तदकीर्तितम् आचरितं कविना, तदकथितम् औक्तं सूत्रकारेण। दुहि गां दोग्धि पयः। याचि पौरवं गां याचते। रुधि गामवरुणद्धि व्रजम्। प्रच्छि माणावकं पन्थानं पृच्छति। भिक्षि पौरवम् गां भिक्षते। चिञ् वृक्षमविचिनोति फलानि। ब्रुवि माणवकं धर्मं ब्रूते। शासि माणवकं धर्मम् अनुशास्ति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

895 अपादानादिविशेषैरविवक्षितं कारकं कर्मसंज्ञं स्यात्. दुह्याच्पच्दण्ड् रुधिप्रच्छिचिब्रूशासुजिमथ्मुषाम्. कर्मयुक् स्यादकथितं तथा स्यान्नीहृकृष्वहाम्.. 1..गां दोग्धि पयः. बलिं याचते वसुधाम्. तण्डुलानोदनं पचति. गर्गान् शतं दण्डयति. व्रजमवरुणद्धि गाम्. माणवकं पन्थानं पृच्छति. वृक्षमवचिनोति फलानि. माणवकं धर्मं ब्रूते शास्ति वा. शतं जयति देवदत्तम्. सुधां क्षीरनिधिं मथ्नाति. देवदत्तं शतं मुष्णाति. ग्राममजां नयति हरति कर्षति वहति वा. अर्थनिबन्धनेयं संज्ञा. बलिं भिक्षते वसुधाम्. माणवकं धर्मं भाषते अभिवत्ते वक्तीत्यादि.. इति द्वितीया.

बालमनोरमा

तत्त्वबोधिनी

478 अकथितञ्च। केनाऽकथितमित्याकाङ्क्षायामाह—अपादानादिविशेषैरिति। अपादानं सम्प्रदानम् अधिकरणं कर्म करणं कर्ता हेतुरित्येतैर्विशेषैरित्यर्थः। अविवक्षितमिति। अपादानादिविशेषविवक्षायां तु–गोर्दोग्धि पयः। बलेर्याचते वसुधाम्। व्रजेऽवरुणद्धि गाम्–इत्येवं पञ्चम्यादय एव भवन्तीति भावः। एतेन `पाणिना कांस्यापात्र्यां दोग्धी'त्यत्र करणाधिकरणयोरतिप्रसङ्गः। तयोस्तु दण्डेन करोति, कटे तिष्ठतीत्यादिरवाकाशो दुहादिपरिगणना`दित्याक्षेपो निरस्तः। करणाधिकरणसञ्ज्ञयोरिह विवक्षितत्वात्। यदि तु सूत्रेऽकथितशब्दोऽप्रधानपर्यया न त्वनुक्तपर्यय इत्यभ्युपगम्येत, तदा स्यादेवाऽयमाक्षेपो न त्वन्यथा। कारकमिति। ततश्च `ब्राआहृणस्य पुत्रपृच्छती'त्यत्र नातिप्रसङ्गः। दुह्राजिति। `दण्ड दण्जनिपातने'चुरादिः। इह तु दण्डिग्र्रहणार्थो न तु निग्रहार्थः। प्रच्छीत्यागन्तुकेनेकारेण निर्देशो न त्विका, `ग्रहिज्ये'ति सम्प्रसारणप्रसङ्गात्। कर्मुयुगिति। कर्मणा युज्यते कर्मयुक्। `सत्सूद्विषे'त्यादिना क्विपे। कर्मणा यद्युज्यत इति। मुख्यकर्मणा सह क्रियया सम्बध्यमानं कारकमेवाऽपादानादिविसेषैरकथितं सत्कर्मसञ्ज्ञक भवतीत्यर्थः। एतेन दुहादीनां द्विकर्मकत्वं स्फोरितम्। अन्ये त्वाहुः—`कर्मयु'गित्यत्र कर्मशब्देन क्रियोच्यत इति। तेन क्रियान्वयीत्यर्थः। परिगणनमिति। तेन `नटस्य श्रणोति गाथा'मित्यादौ नातिप्रसङ्ग इति भावः। इह हि गाथाकर्मकं नटसम्बन्धि श्रवणं वाक्यार्थः। तेन क्रियान्वयित्वान्नटस्य कारकत्वमस्त्येव। गां दोग्धीति। पयःकर्मकं गोसम्बन्धि दोहनमर्थः। पयोऽत्र मुख्यं कर्म, कर्तुरूप्सिततमत्वात्। गौस्तु पयसो निमित्ततामात्रेणोपात्ता, न तु वस्तुसताऽप्यवधिभावेनेत्यपादानसञ्ज्ञाया अप्रवृत्तेरनेन कर्मसञ्ज्ञिका भवति। तदुक्तं हरदत्तेन—`यद्यपि गोरवधिभावो विद्यते, तथाप्यविवक्षिते तस्मिन्निमित्त मात्रविवक्षायामुदाहरणोपपत्ति'रिति। एतेनाऽवधित्वविवक्षायां गोरिति पञ्चम्येवेति स्पष्टम्। यदा तु गौरित्येतत्पयसा सम्बध्यते तदा गोशब्दात्षष्ठ\उfffदेव भवतीत्यपि बोध्यम। यत्तु प्राचा– दुह्राच्यर्थरुधिप्रच्छिचिब्राऊशासुजिकर्मयुक्। नीह्मकृष्मन्थवह्दण्डग्रहमुष्पचिकर्मभाक्'इति पठितं, तत्र ग्रहेः पाठोऽप्रामाणिकः। इतरेषां तु द्विकर्मकत्वं यद्यपि प्रामाणिकं, तथापि सन्दर्भाऽशुद्धिः। तथाहि दुह्रादीन्न्यादीश्च द्वैराश्येन पठित्वा भावकर्मप्रकियाशेषे `लकृत्यक्तखलर्थाः किं द्विकर्मकेभ्यो मुख्ये कर्मणि स्युर्गौणे वा'इत्याशङ्कायां स्वयमेव पठितं— ` न्यादयो ण्यन्तनिष्कर्मगत्यर्था मुख्यकर्मणि। प्रत्ययं यान्ति दुह्रादिर्गौणेऽन्ये तु यथारुचि'इति। एवञ्च दण्डिमन्थिभ्यामपि मुख्ये स्यात्। न चेष्टापत्तिः। `गर्गाः शतं दण्ड\उfffद्न्ता'मिति भाष्यविरोधात्। शतं ह्रत्र प्रधानां न तु गर्गाः, `अर्थिनश्च राजानो हिरण्येन भवन्ति'इति वाक्यशेषात्। दण्डिरत्र ग्रहणार्थो न तु निग्रहार्थ इत्युक्तम्। अतएवाऽत्र समुदाये वाक्यपरिसमाप्तिः, गुणानुरोधेन प्रधानवृत्तेरसम्भवात्। तथा मन्थेरपि प्रधाने स्यात्, इष्यते तु गौणे। तथा च भारविः—`येनापविद्धिसलिलस्फुटनागसद्मा देवासुरैरमृतमम्बुनिधर्ममन्थे'इति। अत्राऽमृतं मुख्यम्–उद्देश्यत्वात्, अम्बुनिधिस्तु गौणः। बलिं याचत इति। अत्र प्रार्थनार्थस्य याचेर्वसुधा मुख्यं कर्म, तेन युक्तो बलिर्वस्तुतोऽवधिरपि तदविवक्षायामनेन कर्म भवति। अविनीतमिति। अनुनयार्थस्य याचेरविनीतो मुख्यं कर्म, अविनीतं विनयायाऽनुनयतीत्यर्थः। विनयस्य तादथ्र्याविवक्षायाम् `अकथितञ्चे'ति कर्मसञ्ज्ञा। तण्डुलानिति। निर्वर्तनार्थस्य पचेरोदनो मुख्यं कर्म, ओदनं निर्वर्तयतीत्यर्थः। तण्डुलास्तु करणत्वाऽविवक्षायामकथितं कर्म। अन्ये त्वाहुः—`द्यर्थः पचिः'इति भाष्यापर्यालोचनया `तण्डुनोदनं पचती'त्यस्य तण्डुलान्विक्लेदयन्नोदनं निर्वर्तयतीत्यर्थः। दुह्रादिषु पचेः परिगणनमप्रामाणिकं, भाष्यकैयटयोरनुक्तत्वादिति। गर्गानिति। ग्रहणार्थस्य दण्डेः शतं कर्म, गर्गास्त्वपादानत्वाऽविवक्षायामकथितं कर्म। व्रजमिति। अत्र गौर्मुख्यं कर्म, व्रजं त्वधिकरणत्वाऽविवक्षायाम् `अकथितञ्च'इति कर्म भवति। एवमग्रेऽप्यूह्रम्। अर्थनिबन्धनेति। न तु स्वरूपाश्रया, `अहमपीदमचोद्यं चोद्ये'इति `तद्राज'सूत्रभाष्ये पृ?च्छिपर्यायस्य चुदेरपि द्विकर्मकत्वदर्शमादिति भावः। अएतएव `स्थातुं रणे स्मेरमुखो जगाद मारीचमुच्चैर्वचनं महार्थ'मिति भट्टिः प्रायुङ्क्ता। एवच्च नाथत्यादयो बहवो द्विकर्मका ज्ञेयाः। स्यादेतत्—-यद्यर्थनिबन्धनेयं सञ्ज्ञा तर्हि नीवहियोरन्यतरो न पठनीयः, उभयोरप्येकार्थत्वादिति चेत्सत्यम्। भारं वहति, भारं नयतीत्यत्र यदि विलक्षणोऽर्थोऽनुभूयते, तदा द्वयमपि पठनीयमेव, यदि तु नानुभूयते तह्र्रन्यतरो न पठनीयः, उभयथापि लक्ष्यस्य निर्बाधत्वात्। अत्र वदन्ति– -`जग्राह द्युतरु शक्रम्'इत्युदाहरणमप्ययुक्तमिति मनोरमोक्तं चिन्त्यमेव। सञ्ज्ञाया अर्थनिबन्धनत्वाद्दण्डेग्र्रहणार्थत्वाच्चेति। बलिं भिक्षत इति। `भिक्ष मिक्षायामलाभे लाभे च'। भिक्षते याचत इत्यर्थः।\र्\नकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्बा च कर्मसञ्ज्ञक इति वाच्यम्। देश इति। कुरुपञ्चालादिरेवेह गृह्रते, तेन `अधिसीङ्स्थासां क्रम'इत्यस्य न वैयथ्र्यम्, अधिपूर्वाणामेवाषामाधारः कर्मेति नियमार्थत्वाभ्युपगमेऽपि वैकुण्ठे वर्तते इत्यादिष्वतिप्रसङ्गः स्यादेवेत्याशयेन तथैवोदाहरति–कुरूनिति। गोदोहमिति। न चेह कालत्वात्सिद्धिः, लोके कालत्वेन प्रसिद्धस्य मासादेरेव कालशब्देन ग्रहणात्। तेन `घटमास्ते' इत्यादि न भवति, जन्यमात्रं कालोपाधिरिति घटादेरपि कालत्वात्। यत्तु प्राचा `अकर्मकधातु भिर्योगे देशकालाध्वभावेभ्यो द्वितीयेति केचि'दित्युक्त्वा `नदीमास्त' इत्युदाह्मतम्। तदसङ्गतम्। `ग्रामसमूहः कुर्वादिरेव देशो गृह्रते, न तु प्रदेश मात्रम्, तेन ग्रामं स्वपितीति न भवति'त्याकरात्। अध्वेति च न्यनम्, अध्वानं स्वपिती'त्यस्यापि प्रसङ्गात्। अतएव आकरेऽध्वा गन्तव्यत्वेन विशेषितः। गन्तव्यत्वेन प्रसिद्धो नियतपरिमाणः क्रोशादिरिति च व्याख्यातम्। द्वितीयेत्यप्यसङ्गतम्, कर्मसञ्ज्ञाया अव्ह्तत्वात्कर्मणि लादयो न स्युरित्यास्यते मास इत्यीदिप्रयोगाऽभावप्रसङ्गात्। `केचि'दित्युक्तिस्तन्मतदौर्बल्यसूचनायेति कथञ्च#इद्?व्याख्याय पूर्वोक्तदोषपरिहारेऽपि नदीमास्त इत्युदाहरणस्याऽसाङ्गत्यदोषस्तदवस्थ एवेति ध्ययम्।

Satishji's सूत्र-सूचिः

TBD.