Table of Contents

<<1-4-51 —- 1-4-53>>

1-4-52 गुतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अणि कर्ता स णौ

प्रथमावृत्तिः

TBD.

काशिका

अर्थशब्दः प्रत्येकम् अभिसम्बध्यते। गत्यर्थानां बुद्ध्यर्थानां प्रत्यवसानार्थानम् च धातूनां, तथ शब्दकर्मकाणाम् अकर्मकनाम् च अण्यन्तानाम् यः कर्ता, स ण्यन्तानां कर्मसंज्ञो भवति। गच्छति माणवको ग्रामम्, गमयति माणवकं ग्रामम्। याति माणवको ग्रामम्, यापयति माणवकं ग्रामम्। गत्यर्थेषु नीवह्योः प्रतिषेधो वक्तव्यः। नयति भारम् देवदत्तः, नाययति भारम् देवदत्तेन। वहति भारम् देवदत्तः, वाह्यति भारं देवदत्तेन। वहेरनियन्तृकर्तृकस्य इति वक्तव्यम्। इह प्रैत्षेधो मा भूत्, वहन्ति यवान् बलीवर्दाः, वाहयति यवान् बलीवर्दानिति। बुद्धिः बुध्यते माणवको धर्मम्, बोधयति माणवकं दह्र्मम्। वेत्ति माणवको धर्मम्, वेदयति माणवकं धर्मम्। प्रत्यवसानम् अभ्यवहारः। भुङ्क्ते माणवक ओदनम्, भोजयति माणवकम् ओदनम्। अश्नाति मानवक ओदनम्, आशयति माणवकमोदनम्। आदिखाद्योः प्रतिशेधो वक्तव्यः। अत्ति माणवक ओदनम्, आदयते माणवकेन ओदनम्। खादति माणवकः, खादयति माणवकेन। भक्षेरहिंसार्थस्य प्रतिषेधो वक्तव्यः। भक्षयति पिण्डीं देवदत्तः, भक्षयति पिण्डीं देवदत्तेन इति। अहिंसार्थस्य इति किम्? भक्षयन्ति बलीवर्दाः सस्यम्, भक्षयन्ति बलीवर्दान् सस्यम्। शब्दकर्मणाम् अधीते मानवको वेदम्, अध्यापयति माणवकं वेदम्। पठति माणवको वेदम्। पाठयति माणवकं वेदम्। अकर्मकाणाम् आस्ते देवदत्तः, आसयति देवदत्तम्। शेते देवदत्तः, शाययति देवदत्तम्। एतेषाम् इति किम्? पचत्योदनं देवदत्तः, पाचयत्योदनं देवदत्तेन इति। अण्यन्तानाम् इति किम्? गमयति देवदत्तो यज्ञदत्तम्, तम् अपरः प्रयुङ्क्ते, गमयति देवदत्तेन यज्ञदत्तं विष्णुमित्रः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

532 गतिबुद्धि। गतिश्च बुद्धिश्च प्रत्यवसानं च तानीति द्वन्द्वः। प्रत्यवसानं- भक्षणम्। गतिबुद्धिप्रत्यवसानानि अर्थो येषामिति विग्रहः। शब्दः कर्म येषां ते शब्दकर्मणः, तेषामिति बहुव्रीहिः। अविद्यमान कर्म येषां ते अकर्मकाः। उभयत्रापि कर्मशब्दः कारकपरः। गतिबुद्धिप्रत्यवसानार्थाश्च शब्दकर्माणश्च अकर्मकाश्च तेषामिति द्वन्द्वः। अणौ कर्ता-अणिकर्ता। यच्छब्दोऽध्याहार्यः। तदाह– हत्याद्यर्थानामित्यादिना। णौ अनुत्वपन्ने सति शुद्धधातुवाच्यां क्रियां प्रति यः कर्ता स ण्यन्ताधातुवाच्यां प्रयोजकव्यापारात्मिकां क्रियां प्रति कर्मसंज्ञकः स्यादित्यर्थः। क्रमेणोदाहरति–शत्रूनिति। `शत्रूनगमयत् स्वर्ग'मिति गत्यर्थकस्योदाहरणम्। शत्रवो युद्धे मृताः स्वर्गमगच्छन्, तान् यः शस्त्रवातेनाऽगमयत् स्वर्गं, स श्रीहरिर्मे गतिरित्यत्रान्वयः। अत्र गमेरण्यन्तावस्थायां शत्रवो गमनक्रियां प्रति कर्तारः, स्वर्गस्तु कर्म। ण्यन्तावस्थायां तु णिज्वाच्यां प्रयोजकव्यापारात्मिकां शस्त्रघातक्रियां प्रति घातयिता हरिः कर्ता। शत्रवस्तु कर्म। शस्त्रघातजन्या या क्रिया स्वर्गप्राप्तिस्तदाश्रयत्वात्। एवंच हरिः प्रयोजककर्ता, शत्रवस्तु प्रयोज्यकर्तारः। प्रयोजककर्तुर्हरेः शाब्दं प्राधान्यम्, अन्यानधीनत्वलक्षणं चार्थप्राधान्यमस्ति। शत्रूणां तु अन्याधीनस्वर्गप्राप्तिकर्तृत्वं प्रयोकधीनत्वाद्गुणभूतमेव। सेषित्वलक्षणमार्थप्राधान्यं तु प्रयोज्यशत्रुगतकर्तृत्वस्यैव, प्रयोजकव्यापास्य प्रयोज्यस्वर्गप्राप्त्यर्थत्वादिति स्थितिः। तत्रान्यानधीनत्वलक्षणस्यार्थप्राधान्यस्य शाब्दप्राधान्यस्य च प्रयोजकव्यापारे सत्त्वात्तदनुरोधि शत्रुगतं कर्मत्वं `कर्तुरीप्सिततम'मित्येव सिद्धम्। अतो नियमार्थमिदं सूत्रे `णिजर्थनाऽऽप्यमानस्य प्रयोज्यकर्तुर्यदि कर्मत्वं भवति तर्हि गत्यर्थादीनामेवे'ति। तेन `पाचयति देवदत्तेन' इत्यादौ प्रयोज्यकर्तुर्न कर्मत्वं, किंतु कर्तृत्वमेव। तदेतत् `हेतुमिति चे'ति सूत्रे भाष्यकैयटयोः स्पष्टम्। उक्तं च हरिणा–`गुणक्रियायां स्वातन्त्र्यात् प्रेषणे कर्मतां गतः। नियमात् कर्मसंज्ञायाः स्वधर्मेणाभिधीयते।' इति स्वधर्मेणेति। तृतीययेत्यर्थः। एवंच स्वर्गकर्मकं शत्रुनिष्ठं यद्गमनं तदनुकूलो यन्निष्ठो व्यापारः स श्रीहरिर्मे गतिरिति वाक्यार्थः। एवमग्नेऽप्यूह्रम्। वेदार्थं स्वानवेदयदिति। बुद्ध्यर्थधातोर#उदाहरणम्। स्वशब्द आत्मीयपरः। स्वे=स्वकीयाविधिप्रमुखा वेदार्थमविदुः, तान् हरिर्वेदार्थमवेदयदित्यर्थः। अत्र स्वेषां प्रयोज्कर्त्तृ?णां कर्मत्वम्। आशयच्चामृतं देवानिति। प्रत्यवसानार्थस्य उदाहरणम्। देवा अमृतमाश्नन्, तान् हरिराशयदित्यर्थः। वेदमध्यापयद्विधिमिति। शब्दकर्मण उदाहरणमेतत्। विधिब्र्राहृआ वेदमधीतवान्, तं हरिरध्यापयदित्यर्थः। अत्र प्रयोज्यकर्तुर्विधेः कर्मत्वम्। आसयत्सलिले पृथ्वीमिति। अकर्मकस्योदाहरणम्। सलिले पृथ्वी आस्त, तां हरिरासयदित्यर्थः। अत्र पृथिव्याः प्रयोज्यकर्त्र्याः कर्मत्वम्। यः स मे श्रीहरिर्गतिरिति प्रतिवाक्यमन्वयः। प्रापणे' इत्यनयोण्र्यन्तयोः प्रयोज्यकर्तु`र्गतिबुद्धी'त्युक्तं नेति वक्तव्यमित्यर्थः। नाययति वाहयति वेति। भृत्यो भारं नयति वहति वा, तं प्रेरयतीत्यर्थः। अत्र प्रयोज्यकर्तुर्भृत्यस्य णिच्प्रकृत्यर्थं नयं वहनं च प्रति कर्तुः प्रयोजकव्यापारं प्रतिकर्मत्वे निवृत्ते णिच्प्रकृत्यर्थं प्रति कर्तृत्वस्यैव निरपवादत्वे नावस्थानात्तृतीया बोध्या। यद्यपि नीवग्योः प्रापणमर्थः, तथापि गत्यनुकूलव्यापारार्थके प्रापणे गतेर्विशेषणत्वेन प्रविष्टतया गत्यर्थत्वात्प्राप्तिरिति भावः। प्रयोज्यकर्तुरुक्तस्य `नीवह्रोर्ने'ति प्रतिषेधस्याऽभावे सति प्रयोज्यस्य कर्मत्वं वक्तव्यमिति फलितम्। वाहयतीति। बाहाः=अ\उfffदाआ वहन्ति, तान् सूतः प्रेरयतीत्यर्थः। `नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः' इत्यमरः। `वहन्ति बलीवर्दा यवान्, वाहयति बलीवर्दान् देवदत्तः' इति बाष्योदाहरणान्नियन्ता पशुप्रेरक एव विवक्षितः।\र्\नदिखाद्योर्नेति। अद भक्षणे, खादृ भक्षणे, अनयोः प्रयोज्यकर्तुः कर्मत्वं नेति वक्तव्यमित्यर्थः। प्रत्यवसानार्थकत्वात् प्राप्तिः। आद्?यति खादयति वेति। अत्ति खादति वा अन्नं बटुः, तं प्रेरयतीत्यर्थः।

वक्तव्यमित्यर्थः। ननु `गतिबुद्धी'ति सूत्रे अणौ कर्तुर्णौ कर्मत्वमुक्तम्। भक्षधातुस्तु चुरादित्वान्नित्यं स्वार्थिकण्यन्तः, तस्याऽणिकर्ता नास्त्येव। अतस्तस्य कर्मत्वनिषेधोऽनुपपन्नः, अप्रसक्तत्वादिति चेन्न, अत एव निषेधाल्मलिङ्गात् `गतिबुद्धी'ति सूत्रे णिग्रहणेन हेतुमत एव विवक्षितत्वात्। एवंच हेतुमण्णिचि अनुत्पन्ने सति अण्यन्तभक्षिधातुवाच्यां क्रियां प्रति कर्तुर्हेतुमण्ण्यन्तवाच्यां क्रियां प्रति कर्मत्वमित्यर्थः पर्यवस्यतीति न दोषः। भक्षयत्यन्नं बटुनेति। चुरादिण्यन्ताद्भक्षधातोर्हेतुमण्णिचि पूर्वणेर्लोपे हेतुमण्ण्यन्तात्तिबादौ सति भक्षयतीति रूपम्। एवंच भक्षयत्यन्नं बटुः। खादतीत्यर्थः। तं प्रेरयतीति ण्यन्तस्यार्थः। भक्षयति बलीवर्दानिति। क्षेत्रे प्ररूढमूलनं सस्यमिह विवक्षितम्। तस्य तदानीमन्तःप्रज्ञजीवत्वात्तद्भक्षणं हिंसैवेति भावः। वक्तव्यमित्यर्थः। जल्पयति भाषयति वेति। `धर्म मिति शेषः। पुत्रो धर्मं जल्पति भाषते वा, तं देवदत्तः प्रेरयतीत्यर्थः। गत्यर्थादिष्वनन्तर्भावाद्वचनम्। नच शब्दनक्रियार्थत्वादेव सिद्धे वचनमिदं व्यर्थमिति वाच्यम्, अत एव `शब्दकर्माकर्मकाणा'मित्यस्य शब्दः कर्म कारकं येषामित्यर्थात्। अन्यथा वेदमध्यापयद्विधिमित्यसिद्धेः। वार्तिके आदिना व्याहरतिवदत्यादीनां सङ्ग्रहः। भाष्ये तु `के पुनर्जल्पतिप्रभृतयः ?। जल्पति विलपति आभाषते' इत्येवोक्तम्। परिगणनमित्येके, उदाहरणमात्रप्रदर्शनमित्यन्ये। प्रेक्षणे' अस्याप्यणौ यः कर्ता स णौ कर्म स्यादिति वक्तव्यमित्यर्थः। दर्शयतीति। हरि भक्ताः पश्यन्ति, तान् गुरुः प्रेरयतीत्यर्थः। ननु दृशेर्बुद्धिविशेषात्मकत्वादेव सिद्धे किमर्थमिदं वचनमित्यत आह-सूत्रे इति। `गतिबुद्धी'ति सूत्रे बुद्धिग्रहणेन ज्ञानसामान्यवाचिनां `विद ज्ञाने, ज्ञा अवबोधने' इत्यादीनामेव ग्रहणं नतु ज्ञानविशेषवाचिनामित्येतत् `दृरोश्चे'त्यनेन विज्ञायते। अन्यथा `दृरोश्चे'त्यस्य वैयथ्र्यप्रसङ्गात्। तेनेति। ज्ञापनेनेत्यर्थः। स्मरति जिघ्रतीत्यादीनामिति। आदिना प्रेक्षते इत्यादीनां सङ्ग्रहः। स्मारयतीति। स्मरति प्रियां देवदत्तः, जिघ्रति चन्दनं देवदत्त, तं यज्ञदत्तः, प्रेरयतीत्यर्थः। `शब्दवैरे'त्यादिना क्यङि, `अकृत्सार्वधातुकयो'रिति दीर्घे, `सनाद्यन्ताः' इति धातुत्वे श्तिपा निर्देशोऽयम्। शब्दायेति क्यङ्न्तधातोरणौ कर्ता णौ कर्म नेति वक्तव्यमित्यर्थः। शब्दाययति देवदत्तेनेति। शब्दायते देवदत्तः, तं यज्ञदत्तः प्रेरयतीत्यर्थः। देवदत्तस्य कर्मत्वाऽभावात्प्रयोज्यकर्तृत्वमादाय तृतीयैव। अत्र शब्दकर्मकत्वात्प्राप्तिरिति भ्रमं निरस्यति-धात्वर्थेति। शब्दकर्मकमुत्पादनं शब्दायेति क्यङन्तस्य धातोरर्थः। एवं च शब्दात्मकं कर्म धात्वर्थेऽन्तर्भूतम्, अतः शब्दस्येति क्यङन्तदातुरकर्मकः, `धात्वर्थबहुर्भूतकर्मकत्वमेव सकर्मकत्वमि'ति `सुप आत्मनः' इति सूत्रे भाष्ये प्रपञ्चितत्वात्। तस्मादकर्मकत्वादेवात्र प्राप्तिरित्यर्थः। एवं च `शब्दाययति सैनिकै रिपून्' इति कर्म प्रयुञ्ज्ञानाः परास्ताः। ननु मासमास्ते देवदत्तः, तं प्रेरयति मासमासयति देवदत्तं यज्ञदत्त इत्यत्र देवदत्तस्य प्रयोज्यकर्तुः कर्मत्वं न स्यात्। आसधातोर्गत्यादिष्वनन्तर्भावात्। नचाकर्मकत्वात्तदन्तर्भाव इति वाच्यम्, `अकर्मकधातुभिर्येगे'इति मासस्य कर्मतया आसेरकर्मकत्वाऽसंभवात्। किं च ओदनादिकर्मणोऽविवक्षायां देवदत्तः पचति,पाचयति देवदत्तेन यज्ञदत्त #इत्यत्र प्रयोज्यकर्तुर्देवदत्तस्य कर्मत्वं स्यात्, तदानीं पचेरकर्मकत्वेन गत्यादिष्वन्तर्भावादित्यत आह–येषामिति। इदं च प्रकृतसूत्रे भाष्यकैयटयोः स्पष्टम्।

तत्त्वबोधिनी

479 गतिबुद्धि। प्रत्यवसानं-भक्षणम्। शब्दकर्मणामिति। शब्दः कर्म कारकं येषां तेषामित्यर्थः। कर्मशब्दो ह्रत्र कारकपरः, न तु `कर्तरि कर्मव्यतिहारे'इत्यत्रेव क्रियापरः, कृत्रिमे कार्यसम्प्रत्ययात्, कर्मग्रहणसामथ्र्याच्च। अन्यथा हि `गतिवुद्धिप्रत्यवसानशब्दार्थाऽकर्मकाणाम्'इत्येव ब्राऊयात्। अणौ यः कर्तेति। अनुपत्पन्ने णिचि–शुद्ध धातुवाच्यां क्रियां प्रतिः यः कर्ता स ण्यन्तधातुवाच्यां क्रियां प्रति कर्मसञ्ज्ञः स्यादित्यर्थः। नियमार्थमेतत्सूत्रमिति प्राञ्चः। `णिजर्थेनाऽऽप्यमानस्य यदि भवति तर्हि गत्यर्थादीनामेव कर्तु'रिति। तेन पाचयति देवदत्तो यज्ञदत्तेनेत्यत्र प्रयोज्ये कर्तरि प्रकृत्यर्थं प्रति कर्तृत्वस्यैव निरपवादत्वेनाऽवस्तानात्तृतीय सिध्यति। उक्तं च–`गुणिक्रियायां स्वातन्त्र्यात्प्रेषणे कर्मतां गतः। नियमात्कर्मसञ्ज्ञायाः स्वधर्मेणाभिधीयते' इति। कर्तुः स्वधर्मेण–तृतीययेत्यर्थः। ननु णिजर्थं प्रति कर्तृत्वं बाधित्वा प्रकृत्यर्थं प्रति कर्तृत्वं परत्वादेव सिद्धम्, अन्तरङ्गत्वाच्च। स्वकारकविशिष्टा हि क्रिया णिजर्थेन सम्बध्यते, हेतुमति णिज्विधानात्। कर्तृप्रयोजकस्य हेतुत्वात्। अतएव उपजीव्याऽपि कर्तृसञ्ज्ञा। एवञ्च— `परत्वादन्तरङ्गत्वादुपजीव्यतयाऽपि च। प्रयोज्यस्यास्तु कर्तृत्वं गत्यादेर्विधितोचिता'। यद्यपि विधिपक्षेऽपि लक्ष्यं निर्बाधमेव, तथापि नियमसूत्रमिदमिति प्राचां ग्रन्थो विरुध्यत इति चेत्। अत्राहुः–णिजर्थस्य शाब्दं प्राधान्यं पुरस्कृत्य प्रधानानुरोधिन्याः कर्मसञ्ज्ञायाः प्राबल्याद्विप्रतिषेध एव नास्तीति परत्वात्कर्तृत्वसिद्धिरित्येतन्न सङ्गच्छते। अन्तरङ्गत्वेपजीव्यत्वे अपि प्रधानं प्रति प्राबल्यं न प्रयोजयतः, ततश्च नियमार्थत्वेक्तिः प्राचां निर्बाधैवेति। गत्यादिण्यन्तान्क्रमेणोदाहरति–शत्रूनिति। शत्रवः स्वर्गमगच्छन्, तान् श्रीहरिः स्वर्गमगमयदिति–गमेरण्यन्तावस्थायां शत्रवः कर्तारस्ते ण्यन्तावस्थायां कर्म अभवन्। स्वकर्मकं शत्रुनिष्ठं यद्गमनं तदनुकूलो यन्निष्टो व्यापारः स श्रीहरिर्मे गतिरिति वाक्यार्थः। एवमग्रेऽप्यूह्रम्। वेदार्थमिति। स्वे=स्वकीया वेदार्थमविदुः, तान् श्रीहरिवेदार्थमवेदयत्। तथा देवा अमृतम् आश्रन्, तानाशयत्। विधिः वेदमध्यैत, तं ब्राहृआणं वेदमध्यापयत्–अपाठयत्। सलिले पृथ्वी आस्त, तां यो हरिरासयत्स्थापयतिस्म स हरिर्मे गतिरित्यन्वयः। ननु शत्रूण#आमनेन कर्मत्वे कृते कर्मण ईप्सिततमः स्वार्गो, न तु कर्तुरिति कर्तुरीप्सिततमत्वाऽभावात्स्बर्गस्य कर्मत्वं न स्यात्। अत्र केचित्—`गतिबुद्धि- –'इति कर्मत्वस्य बहिरङ्गत्वेन ततः पूर्वमेव धात्वर्थव्यापारप्रयुक्तं कर्मत्वं स्वर्गस्य निर्वाधमित्यदोष इति। अन्येतु—`कर्तुरीप्सिततमम्—'इत्यत्र कर्तृग्रहणं स्वतन्त्रस्योपलक्षणम्। स्वातन्त्रे सङ्केतितस्य कर्तृ पदस्य तत्रैव लक्षणा न सङ्गच्छते, एकस्यैकस्मिन्नेवार्थे शक्तिलक्षणोभयाभ्युपगस्य शास्त्रकाराऽसम्मतत्वादिति वाच्यम्, सञ्ज्ञान्तरानुपहितस्वतन्त्रे सङ्केतितस्य सञ्ज्ञान्तरोपहितानुपहितसाधारणे स्वतन्त्रे लक्षणाभ्युपगमे बाधकाऽभावात्। अतएव जिधातोर्जये शक्तिः, प्रकृष्यजये लक्षणा। `शक्यादन्येन रूपेण ज्ञाते भवति लक्षणा'इति। तेन प्रजयतीत्यत्र प्रशब्दो द्योतकः, प्रकृष्टजयस्तु जिधातोरेवार्थ इति नैयायिकोक्तिः सङ्गच्छते। नापि कर्तृपदस्य स्वतन्त्रलक्षणायां प्रमाणाऽभावः शङ्क्यः। `प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्। अप्रधाने दुहादीनाम्' इत्युक्त्वा `ण्यन्ते कर्तुश्च कर्मणः'इतिवदतो भाष्यकारस्यैव प्रमाणत्वात्। न हि लक्षणां विना णिजन्तानां द्विकर्मकता लभ्यते, येन `ण्यन्ते क्रतुः'इति वचनं सावकाशं स्यादित्याहुः। गतिः, तथापि गतिरपि विशेषणीभूय प्रापणममध्ये प्रविष्टेत्येतावन्मात्रेण प्रा\उfffद्प्त मत्वा प्रतिषेध उक्तः। नियन्त्रिति। नियन्ता पशिप्रेरकः, न तु सारथिरेवेति। तेन `वाहयति बलीवर्दान्यवा'निति सिध्यति। अस्मादेव भाष्योदाहरणात् `रूढिर्योगमपहरति'इति न्यायोऽत्र न स्वीक्रियते। अनिषेध इति। `प्रयोज्यः कर्मे'ति वक्तव्यमिति फलितोऽर्थः। यैस्तु प्रापणं गतिशब्देन गृह्रते यौर्वा न गृह्रते उभयेषामपीदं वचनमावस्यकम्। `नीवह्रोर्ने'ति वचनं तु यैः प्रापणं गतिशब्देन गृह्रते तेषामनावश्यकमिति बोध्यम्। सूत इति। `नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः' इत्यमरः। प्रत्यवसानार्थत्वात्कर्मत्वे प्राप्ते निषेधमाह— ।\र्\नदिखाद्योर्न। अदिखाद्योरिति। `अद भक्षणे' `खादृ भक्षणे'। प्राचा तु आदीति पट\उfffद्ते, तत्तु ण्यन्तावस्थानुकरणमिति बोध्यम्। आदयतीति। `इह निगरणचलनार्थेब्यश्च'इति परस्मैपदनियमो न प्रवर्तते, `अदेः प्रतिषेधः' इथि तस्य निषिद्धत्वात्। तेनाऽक्रत्र्रभिप्राये क्रियाफले `शेषात्कर्तरि'–इति परस्मैपदम्, कत्र्रभिप्राये तु `णिचश्च'इत्यात्मनेपदं भवत्येवेति बोध्यम्। कर्मत्वं विधीयते न तु णौ कर्तुरिति प्राप्तेरेवाऽभावान्निषेधोऽयं व्यर्थ इति चेत्। अत्राहुः–हेतुमण्णिजन्ते विधिरिति निषेधोऽप्यणावित्ययं सन्निधानाद्धेतुमण्णिज्विषय एव, तेन चुरादिणिजन्तेऽपि भक्षयतौ प्राप्तिसत्त्वात्तन्निषेध उपसङ्ख्यात इति। भक्षयतीति। बलीवर्दाः सस्यं भक्षयन्ति। तान् भक्षयतीत्यर्थः। क्षेत्रस्थानां यवानां भक्ष्यमाणानां हिंसा ज्ञेया, तस्यामवस्थायां तेषां चेतनत्वात्। जल्पपतिपर्भृतीनाममिति। `जप जल्प व्यक्तायां वाचि'। पुत्रो धर्मं जल्पति, तं देवदत्तो जल्पयतीति अण्यन्तावस्थायां पुत्रः कर्ता, ण्यन्तावस्थयां कर्म अभवत्। तथा पुत्रो धर्म भाषते, तंत भाषयति देवदत्तः। नच जल्पतिभाषत्योः शब्दक्रियत्वेन `गतिबुद्धि–'इति सूत्रेणैव सिद्धे उपसङ्ख्यानामिदं व्यर्थमिति भ्रमितव्यम्। `शब्दकर्मणा'मित्यस्य शब्दः कर्मकारकं येषामित्यर्थात्। अन्यथा `वेदमध्यापयद्विधिम्'इत्यादेरसिद्धिप्रसङ्गात्। एवं पुत्रो यत्किञ्चिद्विलपति, तं विलापयतीत्याद्यप्यूह्रम्। `घटादयो मितः'इति मित्त्वं, न चिन्तार्थकस्येति भावः। देवदत्तेनेति। `स्मारयत्येनं वनगुल्म'इत्यत्र तु `णेरणौ—'इति सूत्रे भाष्ये प्रयोगादेब कर्मत्वं बोध्यम्। शब्दाययतीति। शब्दं करोतीत्यर्थे `शब्दवैर— 'इत्यादीना क्यङ्। ततो हेतुमण्णिच्। धात्वर्थ संगृहीतेति। एतेन `शब्दाययति सैनिकै रिपू'निति कर्म प्रयुञ्जानाः परास्ताः। न त्वविवक्षितकर्माणोऽपीति। यथा `लः कर्मणि च'इति सूत्रे अविवक्षितकर्माणोऽप्यकर्मका इति गृह्रन्ते, तथैवेहापि यदि गृह्रेरन् तदा ओदनादिकर्मणोऽविवक्षायां `पाचयति देवदत्त'मिति स्यात्, न तु देवदत्तेन पाचयतीति। एवं `गत्यार्थाकर्मक—'इति सूत्रेऽप्यविवक्षितकर्माणोऽकर्मका इति न गृह्रन्ते। दत्तवान् पक्ववान् इत्यर्थे दत्तः पक्व इत्यापत्तेः। यत्तु प्राचा– `अयक्रन्दशब्दायह्वेञां न'इत्युक्तं, तदयुक्तम्। अयतेर्निषेधस् निर्मूलत्वेन अणौ कर्तुर्णौ कर्मत्वस्य तत्रेष्टत्वात्। क्रन्दह्वेञोस्तु शब्दक्रियत्वेऽपि शब्दः कर्म कारकं नेति प्राप्तेरेवाऽभावाच्चेतिस्थितं मनोरमायाम्। यद्यपि `श्रुग्रहदृशाम्'इति कर्मत्वमुक्तं, तत्र दृशिग्रहणं प्रामाणिकमेव। श्रृणोतेस्तु शब्दकर्मकत्वात्सिद्धम्। ग्राहेर्द्विकर्मकत्वं यद्यपि `अञि ग्रहत्तं जनक#ओ धनुस्तत्'इति भट्टिप्रयोगस्य, `अयाचितारं न हि देवदेवमद्रिः सुतां ग्रहयितुं शशाके'ति कालिदासप्रयोगस्य चाऽनुगुणं, तथापि बहूनामसम्मतमेव। अतएव `तं बोधितवान्, सुतां ग्राहयितुम् उद्वाह्रत्वेन बोधयितुम्'इत्येवमुक्तप्रयोगं समर्थयाञ्चक्रिरे। न च बुद्द्यर्थत्वं विनापि यथाश्रुतार्थेस एव ग्राहोर्द्विकर्मकत्वमस्त्विति वाच्यम्, तथा हि सति `जायाप्रतिग्राहितगन्धमाल्या'मित्यत्र क्तप्रत्ययेनाऽभिधानं प्रयोज्यकर्मीभूतधेनोः स्यान्न तु गन्दमाल्यकर्मणः, `ण्यन्ते कर्तुश्च कर्मणः'इत्युक्तेः। जायाप्रेरिता हि धेनुर्गन्धमाल्ये प्रतिगृह्णातीति भवत्येव धेनुः प्रयोज्यकर्म। ततश्च `जयया गन्धमाल्ये प्रतिग्राहिता'मिति स्यात्, क्तप्रत्ययानभिहितत्वेन गन्धमाल्यकर्मणि द्वितीयायाः प्रवृत्तेः। सिद्धान्तेः। सिद्धान्ते तु जायया प्रतिग्राहिते गन्धमाल्ये ययेति विग्रहः, द्विकर्मकत्वाऽभावेन गन्धमाल्यस्यैव क्तप्रत्ययेनाऽभिहितत्वात्। `यये'ति तृतीया तु णिजर्थं प्रति जायायाः कर्तृत्वेऽपि णिच्प्रकृत्यर्थं प्रतिग्रहं प्रति धेनोः कर्तृत्वादुपपद्यते। एवञ्चेह जायानिष्ठप्रेरणविषयीभूतं गन्धमाल्यकर्मकं यत्प्रतिग्रहणं तत्तत्र्रीमिति वृत्त्यर्थः। यद्यपि धेनुकर्तृकं जायानिष्ठप्रेरणाविषयीभूतं गन्धमाल्यकर्मकं यत्प्रतिग्रहणं तत्कर्मीभूते गन्धमाल्ये इथि विग्रहार्थः, तथाप्यन्यपदार्थान्तरभावेणैव विशेषणविशेषष्यभाववैपरीत्येनैकार्थीभावः कल्प्यत इति नास्त्यत्राऽनुपपत्तिरिति दिक्।

Satishji's सूत्र-सूचिः

TBD.