Table of Contents

<<1-4-46 —- 1-4-48>>

1-4-47 अभिनिविशश् च

प्रथमावृत्तिः

TBD.

काशिका

अभिनिपूर्वस्य विशतेराधारो यः, तत् कारकम् कर्मसंज्ञं भवति। ग्रामम् अभिनिविशते। कथं कल्याणे ऽभिनिवेशः, पापे ऽभिनिवेशः, या या संज्ञा यस्मिन् यस्मिन् संज्ञिन्यभिनिविशते इति? अन्यतरस्याम् इति वर्तते, परिक्रयणे सम्प्रदानम् अन्यतरस्याम् 1-4-44 इत्यतः। सा च व्यवस्थितविभाषा विज्ञायते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

535 अभिनिविशश्च। आधार इति कर्मेति चानुवर्तते। अभिनीति सङ्घातग्रहणम्। तदाह– अभिनीत्येतदिति। अभिनिविशते सन्मार्गमिति। आग्रहवानित्यर्थः। अप्रतिहतप्रवृत्तिमानिति यावत्। नन्वेवं सति `पापेऽभिनिवेश' इत्यत्रापि कर्मत्वाद्द्वितीया स्यादित्यत आह–परिक्रयणे इति। `परिक्रयणे' इति सूत्रादन्यतरस्याङ्ग्रहणमनुवर्त्त्य व्यवस्थितविभाषाश्रयणात्क्वचिन्नेत्यन्वयः। तर्हि `अभिनिविशते सन्मार्ग'मित्यत्रापि विकल्पः स्यादित्यत आह– व्यवस्थितेति। `आधारोऽधिकरणम्',`अधिशीङ्स्थासां कर्म', `अभिनिविशश्च' इति सूत्रक्रमः। तत्र `अभिनिविशश्चे'त्यत्र कथमन्यतरस्याङ्ग्रहणानुवृत्तिः, `आधारोऽधिकरणम्' `अधिशीङ्स्थासां कर्म' इत्यत्र च तदनुवृत्तेरभावादित्यत आह–मण्डूकप्लुत्येति। `तुल्य'मिति शेषः। मण्डूका यतामध्ये पदानि सन्ततमप्रक्षिपन्त एव उत्प्लुत्य गच्छन्ति तद्वदनुवत्र्येत्यर्थः। `एष्वर्थेष्वभिनिविष्टाना'मिति समर्थसूत्रे भाष्यप्रयोगोऽत्र मानम्।

तत्त्वबोधिनी

481 अभिनिवि। नेरल्पाच्तरत्वेन पूर्वनिपाते कर्तव्ये विपरीतोच्चारणमीदृशशसङ्घातविवक्षार्थमित्याह–सङ्घातपूर्वस्येति। तेनेह–`निविशते यदि शूकशिखा पदे'इति। क्विचिन्नेति। `एष्वर्थेष्वभिनिविष्टाना'मिति समर्थसूत्रस्थभाष्यप्रयोगोऽत्र मानमिति भावः।

Satishji's सूत्र-सूचिः

TBD.