Table of Contents

<<1-4-45 —- 1-4-47>>

1-4-46 अधिशीङ्स्थाऽअसां कर्म

प्रथमावृत्तिः

TBD.

काशिका

पूर्वेण अधिकरणसंज्ञायां प्राप्तायां कर्मसंज्ञा विधीयते। अधिपूर्वाणां शीङ् स्था आसित्येतेषाम् आधारो यः, तत् कारकं कर्मसंज्ञं भवति। ग्रामम् अधिशेते। ग्रामम् अधितिष्ठति। पर्वतम् अध्यास्ते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

534 अधिशीङ्। शीङ्, स्था, आस् एषां द्वन्द्वः। अधिपूर्वा शीङ्स्थाऽऽस इति विग्रहे शाकपार्थिवात्वादुत्तरपदलोपः। तदाह–अधिपूर्वाणामिति। अधिकरणसंज्ञापवादोऽयम्। अधिशेति इति। अधिशेते वैकुण्ठं हरिः, अधितिष्ठति वैकुण्ठं हरिः, अध्यास्ते वैकुण्ठं हरिरित्यन्वयः। अधिस्तु सप्तम्यर्थस्याधारस्य द्योतकः। वैकुण्ठे शेते तिष्ठत्यास्ते वेत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.