Table of Contents

<<1-4-44 —- 1-4-46>>

1-4-45 आधारो ऽधिकरणम्

प्रथमावृत्तिः

TBD.

काशिका

आघ्रियन्ते ऽस्मिन् क्रियाः इत्याधारः। कर्तृकर्मणोः क्रियाश्रयभूतयोः धारणक्रियां प्रति य आधारह्, तत् कारकम् अधिकरणसंज्ञं भवति। कटे आस्ते। कटे शेते। स्थाल्यां पचति। अधिकरनप्रदेशाः सप्तम्यधिकरणे च 2-3-36 इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

905 कर्तृकर्मद्वारा तन्निष्ठक्रियाया आधारः कारकमधिकरणं स्यात्..

बालमनोरमा

624 आधारोऽधिकरणं। `कारके' इत्यधिकृतं प्रथमान्ततया विपरिणम्यते, तच्च आधारस्य विशेषणम्, आधारः कारकमधिकरणमिति लभ्यते। क्रियान्वयि कारकम्। एवञ्च कस्याधार इत्याकाङ्क्षायाम् उपस्थितत्वात्क्रियाया इति लभ्यते। क्रिया च कर्तृकर्मगता विवक्षिता। तदाधारत्वं च न साक्षात्, किंतु कर्तृकर्मद्वारैव, व्याख्यानात्। तदाह- -कर्तृकर्मद्वारेति। तन्निष्ठेति। कर्तृकर्मनिष्ठेत्यर्थः।

तत्त्वबोधिनी

556 आधारः। आध्रियतेऽस्मिन्नित्याधारः। `अध्यायन्याय—'इति सूत्रे `अवहाराधारे' त्युपसङ्ख्यानादधिकरणे घञ्। स चाधारः कस्येत्याकङ्क्षायां कारकाधिकारात्क्रियाया इति लभ्यते। इयं च संज्ञा साक्षात्क्रियाधारयोर्न सम्भवति, पराभ्यां कर्तृकर्मसंज्ञाभ्यां बाधितत्वात्। अतो व्याचष्टे–कतृकमद्वारेति। एवं च `भूतले घट'इत्यादौ अस्तीति क्रियाध्याहारो बोध्यः। त्रिधेति। एतच्च `संहितायाम्' इति सूत्रे भाष्ये स्पष्टम्। नद्यमास्त इत्याद्यर्थं सामीपिकमधिकरणं चतुर्थमपि केचिदिच्छन्ति। कटे आस्ते इति। कर्तृद्वारा क्रियाधारस्योदाहरणमिदम्। कर्मद्वारा क्रियाधारस्य तु—स्थाल्यां पचतीति। वैषयिकाधारमुदाहरति—मोक्षे इच्छाऽस्तीति। अभिव्यापकस्य तु—सर्वस्मिन्निति। तिलेषु तैलमित्याद्यप्यभिव्यापकस्योदाहरणमाहुः। चतरुआ इति। प्रातिपदिकार्थमात्र इत्यर्थः। दूरान्तिकार्थेभ्य इत्यस्येहाऽनुवर्तनादधिकरणेऽप्येते बोध्याः।\त् क्तस्येन्विषस्य कर्मण्युपसङ्ख्यानम्। क्तस्येन्विषयस्येति। इन्=इन्नन्तः शब्दो, विषयो=वर्तभूतमिर्यस्य क्तान्तस्य तस्येत्यर्थः। अन्ये त्वाहुः–इनो विषय इति षष्ठीसमासः। विषयशब्देनेह प्रकृतिरुच्यते। क्तान्तस्येनः प्रकृतित्वादिति। अधीति व्याकरणे इति। भावे क्तप्रतक्यये तत `इष्टादिभ्यश्च' इति कर्तरीनौ कृते पश्चाद्गुणभूतक्रियया सम्बध्यमानं व्याकरणमनभिहितं कर्मेति कृतपूर्वी कटमितिवव्द्दितीयाऽत्र प्राप्ता। `मासमधीति व्याकरणे' इत्यादौ त्वकर्मकैर्धातुभिरियोगनिमित्तस्य कालकर्मणो बहिरङ्गत्वादिहाऽग्रहणमिति सप्यम्यभावः। न चैवं तत्र द्वितीयापि न स्यादिति वाच्यम्। लक्ष्यानुरोधेन द्वितीयाविधाने व्यक्तिपक्षाश्रयणात्। एतच्च कोस्तुभे स्थितम्। किं तु तत्त्वकथनमात्रं, तत्रापि सप्तम्यर्तं वार्तिकेऽस्मिन् साधुग्रहणं, साधुर्भृत्यो राज्ञीत्यादि यथा। `साधुनिपुणाभ्याम्'इति सूत्रे साधुग्रहणं त्वर्चायां ववक्षितायां प्रतियोगे सप्तमीनिवृत्त्यर्थमिति विवेकः।\त् तर्हि `जाङ्येन बद्ध' इत्यादावतिप्रसङ्गः स्यादिति भावः। चर्मणीति। चर्मणीति। चर्मद्वीप्यादीनां समवायः सम्बन्धः। हेतुतृतीयेति। तादर्भ्ये चतुर्थीत्यपि बोध्यम्। सीमाऽन्ण्डकोश इति। तथा च मेदिनीकारः–`सीमा घाटस्थितिक्षेत्रेष्वण्डकोशु च स्त्रियाम्' इति। `अथ पुष्कलको गन्धमृगे क्षपणकीलयोः' इति च। हरदत्तस्तु— `पुष्कलकः शङ्कुः, सीम्नि=सीमज्ञानार्थं हतो=निहतः निखात' इत्याह। अ\उfffद्स्मस्तु पक्षे सीमपुष्कलयोः संयोगसम्बन्धः।

Satishji's सूत्र-सूचिः

TBD.