TBD.
क्रियासिद्धौ यत् प्रकृष्टोपकारकं विवक्षितम् तत् साधकतमं कारकम् करणसंज्ञं भवति। दात्रेण लुनाति। परशुना छिनत्ति। तमब्ग्रहनम् किम्? गङ्गायां घोषः। कूपे गर्गकुलम्। करणप्रदेशाः कर्तृकरणयोस् तृतीया 2-3-18 इत्येवम् आदयः।
TBD.
897 क्रियासिद्धौ प्रकृष्टोपकारकं करणसंज्ञं स्यात्..
552 साधकतमं करणं। क्रियासिद्धाविति। क्रियोत्पत्तावित्यर्थः। कारकाधिकारलभ्यमिदम्। प्रकृष्टोपकारकमिति। कत्र्रा क्रियायां जनयितव्यायां यत्सहायभूतं तदुपकारकमित्युच्यते। `साधकतम'मित्यस्य व्याख्यानमेतत्। साधकशब्दादतिशायने तमबिति तमप्। अतिशयितं साधकं साधकतममिति भावः। यद्व्यापारानन्तरं क्रियानिष्पत्तिस्तत् प्रकृष्टम्। कर्तृव्यापाराधीनयद्व्यापाराऽव्यवहिता क्रियानिष्पत्तिस्तत्तस्यां करणमिति यावत्। तमब्ग्रहणं किमिति। साधकमित्येवोच्यताम्, कारकाधिकारादेव सिद्धे पुनः साधकग्रहणादेव प्रकृष्टं साधकमिति विज्ञायत इति प्रश्नः। गङ्गायां घोष इति। अयमाशयः, –कारकप्रकरणे गौणमुख्यान्याय एतत्सूत्रादन्यत्र न प्रवर्तते इति ज्ञापनार्थं तमब्ग्रहणम्। अन्यथा `आधारोऽधिकरण'मित्यत्र अन्वर्थमहासंज्ञाबलादेवाधारलाभे पुनस्तद्ग्रहणसामथ्र्यात्रुआआववयवव्याप्त्या य आधारः सोऽधिकरणमित्यर्थः स्यात्। एवं च `तिलेषु तैलं', `दध्नि सर्पि'रित्यादावेव स्यात्। `गङ्गायां घोषः', कूपे गर्गकुल'मित्यादौ न स्यात्। अतस्तमब्ग्रहणमिति भाष्ये स्पष्टम्। अत्र यद्वक्तव्यं तत् `आधारोऽधिकरणं' `सप्तम्यधिकरणे च' इत्यत्र वक्ष्यते।
495 साधकतमं करणम्। प्रकृष्टेति। यद्द्यापारानन्तरं फलनिष्पत्तिस्तत्पर्रकृष्टम्। उक्तञ्च—-`क्रियायाः फलनिष्पत्तिर्यद्द्यापारादनन्तरम्। विवक्ष्यते यदा यत्र करणं तत्तदा स्मृतम्'इति। `विवक्ष्यते'इत्यनेन स्थाल्यादीनामपि करणत्वमस्तीति सूचितम्। आह च–`वस्तुतस्तदनिर्देश्यं न हि वस्तु व्यवस्थितम्। स्थाल्या पच्यत इत्येषा विवक्षा दृश्यते यतः'इति। अयं भावः–कारकत्वं तद्द्यप्यकर्तृत्वादिषट्कं च वस्तुविशेषे विशेषणविशेष्यभाववन्न नियतं, किन्तु वैवक्षिकम्। न हि `गौः सर्वं प्रति गौरवे, न तु कञ्चित्प्रत्यगौः' इति वद्विशेषणं सर्वं प्रति विशेषणमेवेति वक्तुं शक्यम्। तथाच कया धातुव्यक्त्या उपस्थापितेऽर्थे किं कत्र्रादिकमिति प्रश्ने `प्रकृतधातुव्यक्त्युपात्तव्यापाराश्रयतया विवक्षितः कर्ता, व्यापारव्यधिकरणफलाश्रयः कर्म, कर्तृकर्मद्वारकसम्बन्धेन व्यापारस्य फलस्य वा आश्रयोऽधिकरण'मिति स्थितम्। पच्यर्थो व्यापार श्चाऽनेकधा। एवञ्च पचेरधिश्रयणतण्डुलावपनैधोपकर्षणादितात्पर्यकत्वे तदाश्रयो देवदत्तः कर्ता, ज्वलनातात्पर्यकत्वे एधाः कत्र्तारः, तण्डुलधारणादिपरत्वे स्थाली कत्रीं, अवयवविभागादिपरत्वे तण्डुलाः कर्तारः। `स्थाल्या पचती'त्यत्र तृतीयोपात्तव्यापाराश्रयाऽपि स्थाली करणमेव, नतु कत्र्री, देवदत्तादिव्यापारास्यैव तद्धातीपात्तत्वात्, तथा आदिखादिभ्यामुपात्तेऽर्थे प्रयोज्यः कर्ता, तस्मिन्नेवार्थे भक्षयतिनोपात्ते प्रयोज्यः कर्म। अधिपूर्वैः शीहादिभिरुपात्तेऽर्थे आधारः कर्म, केवलैरुपात्ते अधिकरणामित्यादि ज्ञेयम्। एतेन ज्ञानस्य स्वप्रकाशत्वे कर्तृकर्मविरोध इति केषाञ्चिदुक्तिः परास्ता। यद्धातूपात्तक्रियायां यदा यस्त स्वातन्त्र्यं विवक्ष्यते तदा तत्क्रियायां स कर्ता, यदुपात्तया कर्तुऋ क्रियाया यदा आप्तुमिष्टतमत्वेन यद्विवक्ष्यते तदा तत्कारकं तत्क्रियायां कर्मेत्येव शब्दविशेषपाधिकस्य कर्तृत्वादेः प्रत्यक्षे उक्तिसम्भवाऽभावात्। यत्तुत केचित्परसमवेतक्रियाजन्यफलशालित्वं कर्मत्वं चेत् `वृक्षात्पर्णं पतती'त्यादौ स्वसमवेतक्रियाजन्यविभागादिफलशालिनि कर्तर्यतिव्याप्त्यभावेऽप्यापादानेऽतिव्याप्तिः स्यादेव। अतश्च धात्वर्थताव्च्छेदकफलशालित्वं कर्मत्वमित्येवाभ्युपगन्तव्यम्। एवञ्च सति `ग्रामं गच्छती'त्यादिसकर्मकेषु गमनजन्यसंयोगादाविष्टाऽनुरोधेने धात्वर्थतावच्छदकत्वेऽभ्युपगतेऽपि, `वृक्षात्पतती'त्याद्यकर्मकेषु पतनाद#इजन्यविभागादौ तदवच्छेदकत्वाऽकल्पनान्नापादानेऽतिव्याप्तिः, नवा` ग्रामं गच्छती'त्यादौ कर्तर्यतिव्याप्तिः,संयोगादिफलजनकीभूतधात्वर्थस्य परसमवेतत्वविशेषणात्कर्मत्वेनाभिमतं यत्तद्भिन्नस्य परशब्देनाऽत्र विवक्षितत्वादित्याहुः। तदप्येतेन प्रत्युक्तम्। `ग्रामं गमयति देवदत्त'मित्यादौ गन्तर्यव्याप्तेः। णिजर्थप्रेरणाजन्यप्रयोज्यव्यापारे गमनादौ धात्वर्थतावच्छेदकत्वाऽभावात्। तत्त्वाभ्युपगमे तु `देवदत्तेन पाचयती'त्यादौ प्रयोज्यकर्तर्यतिव्याप्तेः। `गतिबुद्धी'त्यादिशास्त्राभ्युपगमं विना क्वचित्प्रयोज्यकर्तरि क्रमत्वं, क्वचित्तु कर्तृत्वमिति निर्धारयितुमशक्यत्वात्। `ह्मक्रोरन्यतरस्या'मिति शास्त्रमन्तरेण `हारयति कारयति वा कटं भृत्येन भृत्य'मित्यत्र वैकल्पिककर्मत्वस्य दुरुपपादत्वाच्च। एतादृशेषि वैयाकरणोक्त्यैव निर्वाह इति चेत्, तर्हि `आकडारादेका सञ्ज्ञा, या पराऽनवकाशा चे'त्यक्त्वान्निरवकाशया अपादानसंज्ञया सावकाशायाः कर्मसञ्ज्ञाया बाधान्नोक्तातिव्याप्तिरिति किमनेन `धात्वर्थतावच्छेदके'त्यादि परिश्रमेण?। स्यादेतत्–`आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मने'त्यादिप्रयोगः कथं सङ्गच्छते, एकस्यैव वस्तुनो युगपदेकक्रियानिरूपितकर्तृत्वकर्मत्वादेरसम्भवात्, परया कर्तृसञ्ज्ञया कर्मकरणादिसञ्ज्ञाया बाधात्। नैष दोषः। अहङ्काराद्युपधिभेदेनात्मनोऽपि बेदमाश्रित्य `आत्मानमात्मना हन्ति'इत्यादिप्रयोगस्याकरे समर्थितत्वात्। ननु `साधकं करण'मित्येवास्तु, कारकाधिकारादिह कारकमिति वर्तते, साधकं कारकं हि पर्यायः, तथा चोभयोपादानेन प्रकर्षो लभ्यत इत्याशयेन पृच्छति—तमब्ग्रहणं किमिति। इतरस्तु कारकप्रकरणे गौणमुक्यन्याय एतत्सूत्रादन्यत्र न प्रवर्तत इति ज्ञापनाय तमब्ग्रहणमित्याशयेन ज्ञापनफलमुदाहरति—गङ्गायां घोष इति। उक्तज्ञापनाऽनङ्गीकारे त्विहाधिकरणसञ्ज्ञा न स्यात्। तिलेषु तैलं, दधनि सर्पिरित्यादौ मुख्याधारे तस्याश्चरितार्थत्वादिति भावः। अत्र व्याचख्युः–यदा च तीरधर्म आधारत्वं सामीप्यात्प्रवाहे उपचर्यते तदेदं प्रयोजनम्, यदा तु गङ्गाशब्द एव तीरे वर्तते तदा तु न प्रयोजनम्, तीरस्य मुख्याधारत्वात्। तत्रा द्यपक्षे विभक्तिर्लाक्षणिकी,द्वितीये तु प्रकृतिर्लाक्षणिकीत्यादि।
TBD.