TBD.
पूर्वस्य कर्ता इति वर्तते। अनुपूर्वस्य प्रतिपूर्वस्य च गृणातेः कारकम् पूर्वस्याः क्रियायः कर्तृभूतं संप्रदानसंज्ञं भवति। होत्रे ऽनुगृणाति। होता प्रथमं शंसति, तम् अन्यः प्रोत्साहयति। अनुगरः, प्रतिगरः इति हि संसितुः प्रोत्साहने वर्तते। होत्रे ऽनुगृणाति, होतारं शंसन्तम् प्रोत्साहयति इत्यर्थः।
TBD.
–
571 अनुप्रतिगुणश्च। पूर्वस्य कर्तेत्यनुवर्तते। `गृ? शब्दे' इत्यस्य श्नान्तस्याऽनुकरणशब्दाद्गृण इति षष्ठी। अत्र गृ?धातुः शंसितृकर्मके शंसनविषयकप्रोत्साहने वर्तते। तत्र पूर्वव्यापारस्य शंसनस्य कर्ता संप्रदानमित्यर्थः। तदाह–आभ्यामिति। पूर्वसूत्रे प्रत्याङ्भ्यामिति द्विवचननिर्देशबलात्प्रत्येकमेव धातुसंबन्धावधारणात्तत्साहचर्यादिहापि प्रत्येकमेव धातुसंबन्ध इत्यबिप्रेत्यादाहरति–होत्रे अनुगृणाति प्रतिगृणाति वेति। होत प्रथममिति। शंसितारं होतारम् उत्तरोत्तरशंसनविषये प्रोत्साहयतीति यावत्। `ओऽथ मोदै वे'ति प्रतिगरमन्त्रः। `ओ' इति संबोधने, मोदै' इति लोडुत्तमपुरुषैकवचनम्। `व' इत्येवकारार्थे। हे होतः। अथ त्वदीयशंसनान्तरं तुष्याम्येवेति तदर्थः। प्रोत्साहने होतुः कर्मत्वं प्राप्तं, पूर्वव्यापारं शंसनं प्रति कर्त्तृत्वाद्धोतुः संप्रदानत्वम्।
513 अनुप्रति। `गुण' इति श्रान्तस्यानुकरणशब्दात्षष्ठी। प्रत्याङ्भ्याम्—'इति पूर्वसूत्रे द्विवचननिर्देशात्प्रत्येकमेव धातुसम्बन्ध इथि निर्धारिते तत्साहचर्यादिहापि प्रत्येकमेव धातुसम्बन्ध इति सूचयन्नाह—आभ्यां गृणातेरिति। होत्रे इति। कर्मत्वे प्राप्ते वचनम्।
TBD.