TBD.
पूर्वेण करणसंज्ञायां करनसंज्ञायां प्राप्तायाम् कर्मसंज्ञा विधीयते। दिवः साधकतमं यत् कारकम् तत् कर्मसंज्ञम् भवति, चकारात् करणसंज्ञम् च। अक्षान् दीव्यति, अक्षैर् दीव्यति।
TBD.
–
554 दिवः कर्म च। साधकतममित्यनुवर्तते। तदाह–दिवः साधकतममिति। दिवुधात्वर्थं प्रति साधकतममित्यर्थः। चादिति। चकारात्करणसंज्ञकमित्यपि लभ्यत इत्यर्थः।
497 द्विद्रोणेनेति। द्वयोद्र्रोणयोः समाहारो द्विद्रेणम्। पात्रादित्वात्स्त्रित्वाऽभावः। द्रोणद्वयसम्बन्धि धान्यमित्यर्थः। इह षष्ठी प्राप्ता। द्विद्रोणपरिमितधान्यार्थे मूल्ये द्विद्रोणशब्दः, तस्य च क्रयं प्रति करणत्वमितीहापि तृतीया सिद्धेति दिक्। चादिति। करणशब्दानुवृत्त्या, `परिक्रयणे संप्रदानमन्यतरस्या'मित्युत्तरसूत्रस्थाऽन्यतरस्याङ्ग्रहणापकर्षणेन वा संज्ञयोः पर्यायत्वे लब्धे चग्रहणं समुच्चयार्थम्। तेन `मनसा दीव्यती'ति `मनसदिव'इत्यत्र कर्मण्यण्, करणे तृतीया चोभयं युगपत्सिध्यति। `मनसः संज्ञायाम्'इत्यलुक्। किञ्च `अक्षैर्देवयते देवदत्तो यज्ञदत्तेने'त्यत्र सकर्मकत्वादणि कर्तुर्णौ `गतिबुद्धी'त्यनेन कर्मत्वं न, `अणावकर्मका'दिति परस्मैपदमपि न भवति। ननु कर्मकरणसंज्ञासमावेशस्य `मानसादेव'इत्यत्र क-तार्थत्वादक्षान्दीव्यतीत्यत्र परत्वातृतीयैव स्यान्न तु द्वितीयेति चेत्?, अत्राहुः–कार्यकालपक्षे `कर्मणि द्वितीये'त्यत्र यदस्योपस्थानं तस्यानवकाशत्वाद्द्वितीयेति। स्यादेतत्– `दीव्यन्तेऽक्षा'इत्यत्राभिहितेऽपि कर्मणि करणत्वस्याऽनभिधानातृतीयं स्यात्। तथा `देवना अक्षा'इत्यत्र ल्युटा करणत्वस्याभिधानेऽप#इ कर्मणोऽनभिधानद्द्वितीया स्यात्। मैवम्। एकाव ह्रत्र शक्तिः संज्ञाद्वययोगिनी, तथा चैकस्यां शक्तावभिहितायामन्यस्या अप्यभिधानादुभयत्राप्यभिधानमेव, न त्वन भिहितत्वम्।
TBD.