TBD.
प्रति आङित्येवं पूर्वस्य शृणोतेः कारकम् सम्प्रदानसंज्ञं भवति। कीदृशम्? पूर्वस्य कर्ता। प्रतिपूर्व आङ्पूर्वश्च शृणोति रभ्युपगमे प्रतिज्ञाने वर्तते। स च अभ्युपगमः परेन प्रयुक्तस्य सतो भवति। तत्र प्रयोक्ता पूर्वस्याः क्रियाया कर्ता सम्प्रदानसंज्ञो भवति। देवचत्ताय गाम् प्रतिशृणोति। देवदत्ताय गामाशृणोति। प्रतिजानीते इत्यर्थः।
TBD.
–
570 प्रत्याङ्भ्याम्। प्रत्याङ्भ्यामिति दिग्योगे पञ्चमी। परस्येत्यध्याहार्यं श्रुव इत्यस्य विशेषणम्। `श्रु श्रवणे'। इह तु प्रेरणापूर्वकाभ्युपगमे वर्तते। पूर्वशब्दः प्रेरणात्मकव्यापारं परामृशति। तदाह–आभ्यामित्यादिना। `पूर्वस्ये'त्यस्य व्याख्यानं-प्रवर्तनारूपस्येति। प्रेरणारूपस्येत्यर्थः। `प्रत्याङ्भ्या'मित्यनेन समुदिताभ्यां परस्येति नार्थो विवक्षितः, किन्तु प्रत्येकमेव तयोर्निमित्तत्वम्, अन्यथा `अभिनिविशश्चे'तिवत् `प्रत्याङ् श्रुवः' इत्येव ब्राऊयादित्यभिप्रेत्योदाहरति–विप्राय गां प्रतिश्रणोति आश्रणोति वेति। अत्र प्रतिपूर्वक आङ्पूर्वकश्च श्रुधातुः प्रेरणापूर्वकाभ्यपगमे वर्तते, ततश्च प्रवर्तितः प्रतिजानीते इति लभ्यते केन प्रवर्तित इत्याकाङ्क्षायां विप्रः कर्त्तृत्वेनान्वेति। तत्र विप्रस्य प्रेरणाकर्त्तृत्वात्संप्रदानत्वं कर्त्तृ तृतीयापवाद इत्यभिप्रेत्याह–विप्रेणेति। मग्यं गवादिद्रव्यं देहीति विप्रेण पृष्टः सन् देवदत्तस्तुभ्यं ददामीत्यभ्युपगच्छतीति योजना।
–
TBD.