Table of Contents

<<1-4-38 —- 1-4-40>>

1-4-39 राद्ःईक्ष्योर् यस्य विप्रश्नः

प्रथमावृत्तिः

TBD.

काशिका

राधेरीक्षेश्च कारकम् सम्प्रदानसंज्ञं भवति। कीदृशम्? यस्य विप्रशः। विविधः प्रश्नः विप्रश्नः। स कस्य भवति? यस्य शुभाशुभं पृच्छ्यते। देवदत्ताय राध्यति। देवदत्ताय ईक्षते। नैमित्तिकः पृष्टः सन् देवदत्तस्य दैवं पर्यालोचयति इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

512 राधीक्ष्योः। `राध संसिद्धौ', `ईक्ष दर्शने'। अनयोस्त्विह शुभाऽशुभपर्यालोचनमर्थस्तञ्च प्रश्नपूर्वकमित्याशयेन विवृणोति–पृष्टो गर्ग इति। शुभाऽशुभरूपयोः कर्मणोर्धात्वर्थेनोपसंग्रहादकर्मकावेतौ। अतएव राध्यतीति श्यन्, `राधोऽकर्मकाद्वृद्धावेव' इथि दिवादिषु वक्ष्यमाणेनि गणसूत्रेणाऽकर्मकादेव तद्विधानात्, कृष्णसम्बन्धि शुभाऽशुभमित्यर्थाभ्युपगमात् षष्ठ\उfffदां प्राप्तायां वचनमिदम्।

Satishji's सूत्र-सूचिः

TBD.