TBD.
श्लाघ ह्नुङ् स्था शप इत्येतेषाम् ज्ञीप्स्यमानो यो ऽर्थह्, तत् कारकं सम्प्रदानसंज्ञं भवति। ज्ञीप्स्यमानः ज्ञपयितुम् इष्यमणः, बोध्यितुम् अभिप्रेतः। देवदत्ताय श्लाघते। देवदत्तं श्लाघमानस्ताम् श्लाघां तम् एव ज्ञपयितुम् इच्छति इत्यर्थः। एवम् देवदत्ताय ह्नुते। यज्ञदत्ताय ह्नुते। देवदत्ताय तिष्ठते। यज्ञदत्ताय तिष्ठते। देवदत्ताय शपते। यज्ञदत्ताय शपते। ज्ञीप्स्यमानः इति किम्? देअदत्ताय श्लाघते पथि।
TBD.
–
564 श्लाघह्नुङ्। `श्लाघृ कत्थने' `ह्नुङ् अपनयने' `ष्ठा गतिनिवृत्तौ' `शप उपालम्भे' एषां द्वन्द्वः। `शपा'मित्यनन्तरं `प्रयोगे' इत्यध्याहार्यम्। श्लाघादीनां स्तुत्यादिना बोधनमर्थः, ज्ञीप्स्यमान इति लिङ्गात्। ज्ञापनवाचिनो ज्ञपेः सन्नन्तात्कर्मणि शानच्। तदाह–एषां प्रयोगे इत्यादिना। गोपी स्मरादीति। मन्मथपीडावशाद्नोपी आत्मस्तुत्या विरहवेदनां कृष्णं बोधयतीत्यर्थः। कृष्णस्यैव स्तुत्यत्वे तु द्वितीयैवेत्याहुः। ह्नुते इति। सपत्न्यपनयनेन स्वाशयं कृष्णं बोधयतीत्यर्थः। तिष्ठते इति। गन्तव्यमित्युक्तेऽपि स्थित्या स्वाशयं कृष्णं बोधयतीत्यर्थः। `प्रकाशनस्थेयाख्ययोश्चे'त्यात्मनेपदम्। शपते इति। उपालम्भेन स्वाशयं कृष्णं बोधयतीत्यर्थः।
508 श्लाघह्नुङ्। `श्लाघृकत्थने,' `ह्नुङ् अपनयने' `ष्ठा गतिनिवृत्तौ,'`शप उपलम्भे'। कृष्णाय श्लाघत इति। अ\उfffद्स्मस्तु पक्षे शेष षष्ठ\उfffदां प्राप्तायां वचनम्। ह्नुति इति। सपत्नीभ्यः कृष्णं ह्नुवाना तमेवाऽर्थं कृष्णं बोधयतीत्यर्थः। यस्य कस्यचिथ्नुति बोधयतीति वा। तिष्ठत इथि। स्थित्या स्वाभिप्रायं कृष्णं बोधयतीत्यर्थः। `प्रकाशनस्थेयाख्ययोश्चे 'ति तङ्। शपत इति। उपालम्भेन स्वाभिप्रायं कृष्णं बोधयतीत्यर्थः। `शप उपालम्भे' इति तङ्।
TBD.