TBD.
धारयतेः प्रयोगे उत्तमर्णो यो ऽर्थः, तत् कारकं सम्प्रदानसंज्ञं भवति। उत्तमम् ऋणं यस्य स उत्तमर्णः। कस्य चोत्तममृणम्? यदीयं धनम्। धनस्वामी प्रयोक्ता उत्तमर्णः, स सम्प्रदानसंज्ञो भवति। देवदत्ताय शतम् धारयति। यज्ञदत्ताय शतं धारयति। उत्तार्णः इति किम्? देवदत्ताय शतम् धरयति ग्रामे।
TBD.
–
565 धारेरुत्तमर्णः। `धारे'रित्यनन्तरं `प्रयोगे' इत्यध्याहार्यम्। `धृङ् अवस्थाने' इत्यस्य हेतुमण्ण्यन्तस्य धारेरिति निर्देशः। तदाह–धारयतेरित्यादिना। अन्यस्वामिकं द्रव्यं नियतकाले पुनरर्पणबुद्ध्या गृहीतम् ऋणमित्युच्यते। तत्र ऋणस्य ग्रहीता-अधमर्णः, ऋणस्यार्पयिता-धनस्वामी-उत्तमर्णः। प्रतिमासमशीतिभगादिवृद्ध्या उत्तमम्= अधिकतां प्राप्तम् ऋणं यस्येति विग्रहः। भक्तायेति। भक्तसंबन्धी यो मोक्षः= अपरिमितनित्यसुखविशेषस्तं धारयतीत्यर्थः। धरते मोक्षः, अवतिष्ठते इत्यर्थः। तं प्रेरयति धारयति, अवस्थापयतीति यावत्। पूजयन्हि भक्तस्तुलसीदलादिद्रव्यं प्रयच्छति, तच्च गृह्णन्तुष्टो हरिस्तत्प्रत्तद्रव्यं मोक्षदानेन निष्क्रीणाति। तदाहुः पौराणिकाः-`तोयं वा पत्रं वा यद्वा किञ्चित्समर्पितं भक्त्या। तदृणं मत्वा देवो निःश्रेयसमेव निष्क्रयं मनुते।' इत्यादि। तथाचात्र भक्तस्य ऋणदातृत्वेन उत्तमर्णत्वात्संप्रदानत्वं संबन्धषष्ठ\उfffद्पवादः।
509 धारेरुत्तमर्णः। `धृङ् अवस्थाने'। हेतुमण्ण्यन्तः। उत्तमर्णो=धनस्वामी। अर्तेः क्तः। ऋणम्। ऋणमाधमण्र्ये इथ्यत्र व्यवहारविशेषोपलक्षणार्थमाधमण्र्यग्रहणमिति व्याख्यानादुत्तमर्णेऽपि निष्ठानत्वं भति। अस्मादेव निपातनादत्र बहुव्रीहौ निष्ठान्तस्य परनिपातो बोध्यः। भक्तायेत्यादि। इह भक्त उत्तमर्णो, हरिरधमर्णः। धृङोऽकर्मकत्वादणौ कर्तुर्मोक्षस्य णौ कर्मत्बम्। शतं धारयति ग्राम इति। परत्वादिहाऽधिकरणसंज्ञा भविष्यतीति चेदुत्तमर्णेऽपि तर्हि हेतुसंज्ञा स्यादिति हरदत्तः।ततश्चोत्तमर्णग्रहणाऽभावे हेतुसंज्ञाया इवाधिकरणसंज्ञाया अप्ययमपवादः स्यात्तद्वारणयोत्तमर्णग्रहणमिति भावः। एवं च कृतेऽप्युत्तमर्णग्रहणे `तत्प्रयोजको हेतुश्च' इति हेतुसंज्ञायां प्राप्तायां तद्बाधनार्थमिदं संप्रदानसंज्ञावचनमिति निष्कर्षमाहुः। मनोरमायां तु षष्ठ\उfffदां प्राप्तायामिदं वचनमिति स्थितम्।
TBD.