Table of Contents

<<1-4-32 —- 1-4-34>>

1-4-33 रुच्यर्थानाम् प्रीयमाणः

प्रथमावृत्तिः

TBD.

काशिका

रुचिना समानार्थाः रुच्यर्थाः अन्यकर्तृको ऽभिलाषो रुदिः। रुच्यर्थानां धातूनां प्रयोगे प्रीयमाणो यो ऽर्थः, तत् कारकं सम्प्रदानासंज्ञम् भवति। देवदत्ताय रोचते मोदकः। यज्ञदत्ताय स्वदते ऽपूपः। देवदत्तस्थस्याभिलाषस्य मोदकः कर्ता। प्रीयमाणः इति किम्? देवदत्ताय रोचते मोदकः पथि।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

563 रुच्यर्थानां। रुच्यर्थानां धातूनामिति। `रुच दीप्तावभिप्रीतौ च'। दीप्तिरिह न रुच्यर्थः, प्रीयमाण इति विरोधात्। तथाच प्रीतिजननार्थानामित्यर्थः। प्रीयमाण इति। समवायेन प्रीत्याश्रय इत्यर्थः। हरये रोचते भक्तिरिति। भक्तिः स्वविषयां प्रीति हरौ जनयतीत्यर्थः। भक्तिगतव्यापारप्रयोज्यप्रीत्याश्रयत्वाद्धरेः कर्मत्वं प्राप्तं, तदपवादोऽयम्। नन्वेवं सति हरिर्भक्तिममिलषतीत्यत्रापि भक्तेः प्रीतिविषयत्वात्संप्रदानत्वं स्यादित्यत आह-अन्यकर्तृक इति। समवायेन प्रीत्याश्रयापेक्षया यदन्यत्, तत्कर्तृकाभिलाषो रुच्धात्वर्थः। प्रीत्याश्रयकर्तृकः किञ्चिद्विषयक इच्छाविशेषोऽभिलाषः। तथा च अभिलषते रुच्र्थकत्वाऽभावान्न तद्योगे संप्रदानत्वम्। प्रकृते च प्रीत्याश्रयो हरिः, तदपेक्षया यत् अन्यता=भक्तिः, तत्कर्तृकैव प्रीतिरिति रूच्यर्थयोगः। नन्विह भक्तेः संप्रदानत्वं कुतो न स्यात्, विषयतासंबन्धेन भक्तिरपि प्रीत्याश्रयत्वादित्यत आह– हरिनिष्ठप्रीतेर्भक्तिः कत्र्रीति। हरेरेव समवायसंबन्धेन प्रीत्याश्रयतया प्रीयमाणत्वाद्भक्तेः कर्त्र्या उक्तरीत्या प्रीयमामत्वाऽभावाच्च न संप्रदानत्वमिति भावः। भक्तिर्हरिं प्रीणाति, प्रीणयतीत्यादौ तु न भक्तेः संप्रदानत्वप्रसक्तिः, तिङा अभिहितत्वात्, समवायेन प्रीत्याश्रयत्वाऽभावाच्च। नापि हरेः, प्रीयमाण इति कर्मणि सानच्प्रयोगबलेन प्रीधातुयोगे रुच्यर्थानामित्यस्याऽप्रसक्तेर्विज्ञानात्, अन्यथा प्रीधातुकर्मणः संप्रदानत्वे कर्मणि शानचो दौर्लभ्यात्। मोदकः पथीति। अत्र पथः प्रीयमामत्वाऽभावान्न संप्रदानत्वमिति भावः।

तत्त्वबोधिनी

507 रुच्यर्थानाम्। रुचिरर्थो येषां ते रुच्यर्थास्तेषाम्। प्रीयमाणा इति। `प्रीञ् तर्पणे' अस्मात्कर्मंणि लिट्। हरये रोचत इति। हरिं प्रीणयतीत्यर्थः। कर्मसंज्ञायां प्राप्तायां वचनम्। यद्यपि रुचिर्दीप्तावपि पट\उfffद्ते, तथापीह दीप्तिर्न विवक्षितेत्याह—अन्यकर्तृकोऽभिलाष इति। अत एव `आदित्यो रोचते दिक्षु' इत्यत्र दीप्त्यर्थे संज्ञा न भवति। हरिनिष्ठ प्रीतेरिति। एतेन अन्यकर्तृकत्वमिह प्रीत्याश्रयाऽन्यकर्तृकत्वमित्युक्तं भवति। मोदकः पथीति। देवदत्तस्यैव प्रीयमाणत्वं न तु पथ इति न कतस्य संप्रदानत्वं। प्रीयमाणपदाऽभावे चु पथोऽपि स्यादिति भावः।

Satishji's सूत्र-सूचिः

TBD.