Table of Contents

<<1-4-31 —- 1-4-33>>

1-4-32 कर्मणा यम् अभिप्रैति स सम्प्रदानम्

प्रथमावृत्तिः

TBD.

काशिका

कर्मणा करणभूतेन कर्ता यम् अभिप्रैति तत् कारकं सम्प्रदानसंज्ञं भवति। अन्वर्थसंज्ञाविज्ञानाद् ददातिकर्मणा इति विज्ञायते। उपाध्यायाय गां ददाति। माणवकाय भिक्षां ददाति। क्रियाग्रहणम् अपि कर्तव्यम्। क्रियया ऽपि यम् अभिप्रैति स सम्प्रदानम्। श्राद्धाय निगर्हते। युद्धाय सन्नह्यते। पत्ये शेते। सम्प्रदानप्रदेशाः चतुर्थी सम्प्रदाने 2-3-13 इत्येवम् आदयः। कर्मणः करणसंज्ञा वक्तव्या सम्प्रदानस्य च कर्मसंज्ञा। पशुना रुद्रं यजते। पशुं रुद्राय ददाति इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

899 दानस्य कर्मणा यमभिप्रैति स सम्प्रदानसंज्ञः स्यात्..

बालमनोरमा

561 अथ चतुर्थी। कर्मणा यमभि। कर्मसंज्केन गवादिद्रव्येण यमभिप्रैति शेषित्वेनऽध्यवस्यति स संप्रदानमित्यर्थः। शेषित्वं-भोक्तृत्वम्। संप्रदीयते यस्मै तत्संप्रदानमित्यन्वर्थसंज्ञैषा। ततश्च कस्याः क्रियायाः कर्मणेत्याकाङ्क्षायां दानस्येति गम्यते। तदाह–दानस्येत्यादिना। देयद्रव्योद्देश्यं संप्रदानमिति फलितम्। दानस्येति किम् ? पयो नयति देवदत्तस्य। अत्र देवदत्तस्य पयोनयनोद्देश्यत्वेऽपि न संप्रदानत्वं, पयसो दानकर्मत्वाऽभावात्।

तत्त्वबोधिनी

506 कर्मणा। महासंज्ञाकरणमन्वर्थसंज्ञाविधानार्थम्। सम्यक् प्रदीयतेऽस्मै तत्संप्रदानमिति। अत एवाह—दानस्येति। दानक्रियाकर्मणा कर्ता यमभिप्रैति सम्बन्ध्नाति, सम्बन्द्धुमीप्सति वा तस्कारकं सम्प्रदानसंज्ञकमित्यर्थः। तेन `अजां नयति ग्रामं' `हस्तं निदधाति वृक्षे' इत्यादौ नाऽतिप्रसङ्गः। दानं चाऽनुपुनग्र्रहणाय स्वस्वत्विनिवृत्तिपूर्वकं परस्वत्वोत्पादनम्। अतएव `रजकस्य वस्त्रं ददाती'त्यादौ न भवति। तत्र हि ददातिर्भाक्तः। एतच्च वृत्तिमतम्। भाष्यमते तु नाऽन्वर्थतायामाग्रहः `खण्डिकोपाध्यायः शिष्याय चपेटां ददाति' इत्यादिप्रयोगात्। `राजकस्य ददाती'ति प्रयोगस्तु शेषत्वविवक्षायां भविष्यति। न चैवमजां नयति ग्राममित्यादावतिप्रसङ्गः शङ्क्यः, अजां प्रति ग्रामस्य शेषित्वाऽभावात्। `यमभिप्रैती'त्युक्त्या हि यमिति निर्दिष्टस्य शेषित्वं, कर्मणश्च शेषत्वं लभ्यते, गां प्रति तु विप्रस्य शेषित्वमस्तीति भवति तस्य संप्रदामसंज्ञा। अत्र अभि प्र एतीत्येतत्पदत्रयं, न तु समासः।' उदात्तवता गातिमता च तिङा गतेः समासो वक्तव्यः' इति वार्तिकस्य छन्दोविषयत्वादिति हरदत्तः। भाषाविषयत्वे तु `यत्प्रकुरुते' इत्यादौ समासत्वात्सोर#उत्पत्तिः स्यात्। लिङ्गसर्वनाम नपुंसकतामभ्युपेत्य `स्वमोर्नपुंसकात्' इति लुकि कृतेऽपि `ह्यस्वो नपुंसके—' इति ह्यस्वः स्यात्,`यत्प्रकुर्वीर'न्नित्यत्र तु नलोपः स्यात्?, तस्मादुक्तवार्तिकस्य छन्दोविषयत्वंयुक्तमेव। दानीय इति। बाहुलकात्संप्रदाने अनीयरि। क्रिययेति। क्रियायाः कृत्रिमाकर्मत्वाऽभावात्तया अभिप्रेयमाणस्य सूत्रेण संज्ञा न प्राप्नोतीति वचनम्। एतच्च `क्रियार्थोपपदस्य च कर्मणि स्थानिनः' इत्यनेन सिद्धम्। `पत्ये शेते' इत्यादौ पतिमनुकूलयितुं शेते इत्याद्यर्थाभ्युपगमे वाधकाऽभावात्। भाष्यकारमते तु `कर्मणा यमभिप्रैति' इति सूत्रेणैव सिद्धम्, `संदर्शनप्रार्थनाऽध्यवसायैराप्यमाणत्वात्क्रियापि कृतिं?रमं कर्म' इति तैरुक्तत्वात्। नचैवमपि ददातिकर्मत्वाऽभावात् `क्रियया यमभिप्रैति' इत्येतद्वचनं कर्तव्यमेवेति वाच्यम्, भाष्येऽन्वर्थसंज्ञात्बस्वोकारात्। नन्वेनं कटं करोति, ओदनं पचतीत्यादावपि संप्रदानत्वप्रसङ्गस्तथा च वचनद्वयबलात्कर्मसंप्रदानयोः पर्यायत्वे `कटाय करोती'त्याद्यनिष्टप्रयोगोऽपि स्यादिति चेत्?। अत्राहुः–`पत्ये शेते' इत्यकर्मकस्थले सावकाशायाः संप्रदानसंज्ञायाः निरवकाशया कर्मसंज्ञया बाधितत्वान्नैवाऽनिष्टप्रसक्तिः। न चैवं `गत्यर्थकर्मणि द्वितीयाचतुथ्र्यौ—' इति सूत्रमावश्यकमेवेति तत्प्रत्याख्यानं भाष्यस्थं न सङ्गच्छत इति वाच्यम्। भाष्ये तत्प्रत्याख्यानस्य प्रौढिवादमात्रत्वादिति दिक्। स्यादेतत्—दानस्य तदर्थत्वात्तादर्थ्ये चतुर्थी सिद्धैव किमनया संप्रदानसंज्ञया ?। मैवम्। दानक्रियार्थं हि संप्रदानं न तु दानक्रिया तदर्था। कारकाणां क्रियार्थत्वात्। करणसंज्ञेत्यादि। छन्दसमेतत्। अत एवेदं सुब्व्यत्यत्येन सिद्धत्वादिति प्रत्याख्यायते।

Satishji's सूत्र-सूचिः

TBD.