TBD.
आख्याता प्रतिपादयिता। उपयोगः नियमपूर्वकं विध्याग्रहणम्। उपयोगे साध्ये य आख्याता तत् कारकम् अपादानसंज्ञं भवति। उपाध्यायादधीते। उपाध्यायादागमयति। उपयोगे इति किम्? नटस्य शृणोति।
TBD.
–
584 आख्यातोपयोगे। आख्याता-उपयोगे इति च्छेदः। आख्यातेति तृजन्तात्प्रथमैकवचनम्। उपयोगपदं व्याचष्टे-नियमपूर्वकेति। भाष्ये तथोक्तेरिति भावः। आख्यातेति तृजन्तं व्याचष्टे-वक्तेति। अध्यपयितेत्यर्थः। उपाध्यायादधीते इति। नियमविशेषपूर्वकमुपाध्यायस्योच्चारणमनूच्चरयतीत्यर्थः। षष्ठ\उfffद्पवादोऽयम्। भाष्ये तूपाध्यांयान्नर्गतं वेदं गृह्णातीत्यर्थमाश्रित्य प्रत्याख्यातमिदम्।
524 आख्यातोप। नयमपूर्वकेति। तत्रैवोपयोगशब्दो रूढ इति भावः। आख्यातेत्येतत्तृजन्तमित्याह—वक्तेति। उपाध्यायादिति। उपेत्य अस्मादधीयत इति उपाध्यायः, `इङश्च'इति घञ्। अध्ययनं तु गुरुच्चारणोत्तरोच्चरणं नियमपूर्वकम्। नटस्येति। गाथाकर्मकं नटसंबन्धि श्रवणमित्यर्थः। नटस्य गाथाऽन्वये तु कारकत्वाऽभावादेवाऽप्राप्तेरुपयोगग्रहणम् समर्थितं स्यात्।
TBD.