TBD.
व्यव्धानम् अन्तर्धिः। अन्तर्धिनिमित्तं येन अदर्शनम् आत्मन इच्छति तत् कारकम् अपादानसंज्ञं भवति। उपाध्यायादन्तर्धत्ते। उपाध्यायान् निलीयते। मा मामुपाध्यायो द्राक्षीतिति निलीयते। अन्तर्धौ इति किम्? चौरान् न दिदृक्षते। इच्छतिग्रहणं किम्? अदर्शनेच्छायां सत्यां सत्यपि दर्शने यथा स्यात्।
TBD.
–
583 अन्तर्धौ। अन्तर्धावित्येतद्व्याचष्टे–व्यवधाने सतीति। व्यवधानेनेति यावत्। यत्कर्तृकस्येति। येनेति कर्तृतृतीयेति भावः। आत्मनो दर्शनस्येति। `आत्मन' इति दर्शनशब्दयोगे कर्मणि षष्ठी। `आत्मन' इत्यध्याहारलभ्यम्। अत एव येनेति कर्तरि तृतीया सङ्गच्छते। अन्यथा कृद्योगषष्ठीप्रसङ्गात्। `आत्मन' इत्यध्याहारे तु उभयप्राप्तौ कर्मण्येवेति नियमान्न कृद्योग9षष्ठी। आत्मशब्देन इच्छतिकर्ता विवक्षितः। व्यवदानेन स्वविषये यत्कर्तृकदर्शनस्य अभावमिच्छतीति यावत्। मातुर्निलीयते कृष्म इति। `लीङ्श्लेषणे'श्यन्विकरणः। इह तूपसर्गवशाद्व्यवधानेन परकर्तृकस्वविषयकदर्शनविरहानुकूलव्यापारे वर्तते। ततश्च कृष्णो मातृकर्तृकस्वविषयकदर्शनविरहाय कुड\उfffदादिना प्रच्छन्नो भवतीत्यर्थः। अत्र व्यवधानमाश्रित्य मातृकर्तृकस्वविषयकदर्शनविरहस्य कृष्णेनेष्यमाणतया मातुरपादानत्वात्पञ्चमी। कर्तृतृतीयापवादोऽयं , षष्ठ\उfffद्पवादो वा। भाष्ये तु बुद्धिकृतमपादानत्वमाश्रित्य इदमपि प्रत्याख्यातम्।
523 अन्तर्धौ। येनेति कर्तरि तृतीया। न च कृद्योगषष्ठीप्रसङ्गः, `उभयप्राप्तौ कर्मण्येवे ति नियमात्। अत्र ह्रात्मन इति गम्यमानत्वादस्त्युभयोः प्राप्तिः। निलीयत इति। `लिङ् श्लेषणे' दैवादिकः। नन्वन्तद्र्धाविति व्यर्थं, `न दिदृक्षते चोरो नित्यत्र परत्वात्कर्मसंज्ञासिद्धेः। अत्राहुः–चोराः आत्मानं मा द्राक्षुरिति बुद्द्या चोरन्न दिदृक्षत इत्ययमर्थोऽत्र विवक्षितस्तत्र कर्मणः शेषत्वविवक्षायामिदं पूर्ववत्प्रत्युदाहरणमिति। शब्दकौस्तुभे तु `अन्तर्धौ' इत्येतच्चिन्त्यप्रयोजनमिति स्थितम्।
TBD.