Table of Contents

<<1-4-29 —- 1-4-31>>

1-4-30 जनिकर्तुः प्रकृतिः

प्रथमावृत्तिः

TBD.

काशिका

जनेः कर्ता जनिकर्ता। जन्यर्थस्य जन्मनः कर्ता जायमानः, तस्य या प्रकृतिः कारणम्, हेतुः, तत् कारकम् अपादानंज्ञम् भवति। शृङ्गाच्छरो जायते। गोमयाद् वृश्चिको जायते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

585 जनिकर्तुः प्रकृतिः। जनिर्जननमुत्पत्तिः। `जनी प्रादुर्भावे'दैवादिकोऽकर्मकः। `इण्जादिभ्यः' इति भावे इण्। `जनिवध्योश्चे'ति निषेधान्नोपधावृद्धिः। जनेः कर्तेति विग्रहः। शेषषष्ठ\उfffदा समासः। `तृजकाभ्यां कर्तरी'ति निषेधस्तु कारकषष्ठ\उfffदा एवेति वक्ष्यते। जायमानस्येति। जनधातोः कर्तरि लटश्शानच्, श्यन्, `ज्ञाजनोर्जा' `आने मुक्'। उत्पत्त्याश्रयस्येत्यर्थः। प्रकृतिशब्दं व्याचष्टे-हेतुरिति। ब्राहृण इति। हिरण्यगर्भादित्यर्थः। घटादिषु कुलालादिवत्तस्य प्रजोत्पत्तौ निमित्तकारणत्वमिति भावः। वृत्तिकृन्मतमेतदयुक्तम्, संयोगविश्लेषसत्त्वेन `ध्रुवमपाये' इत्येव सिद्धत्वात्। अतोऽत्र मूले हेतुशब्द उपादानकारणपर एव। अत एव भाष्यकैयटयोः `गोमायाद्वृश्चिका जायन्ते' गोलोमाऽविलोमभ्यो दूर्वा जायन्ते' इत्युदाह्मत्य परिणामेषु प्रकृतिद्रव्यावयवानुस्यूतिसत्त्वेऽपि बुद्धिकृतविश्लेषसत्त्वात् `ध्रुवमपाये' इत्येव सिद्धमिति प्रत्याख्यानं सङ्गच्छते। एवं च `ब्राहृणः प्रजाः प्रजायन्ते' इत्यत्र ब्राहृशब्देन मायोपहितमी\उfffदारचैतन्यमेव विवक्षितम्। तद्धि सर्वकार्योपादानमिति वेदान्तसिद्धान्तः।

तत्त्वबोधिनी

525 जनिकर्तुः। जननं जनिः–उत्पत्तिः। `इञजादिभ्यः'इति जनेर्भावे इञ्। `जनिवध्योश्च'इति वृद्धिप्रतिषेधः। तस्याः कर्तेति शेषषष्ठ\उfffदा समासो, न तु कारकषष्ठ\उfffदा,`तृताभ्याम्—'इति यथा। तदेतदाह–जायमानस्येति। एतेन `इक्?श्तिपौ धातुनिर्देशे'इति इका निर्देशोऽयं जनिरित्याश्रित्य `गमहन— ' इत्युपधालोपमर्थाऽसङ्गतिं समासानुपपतिं?त चोद्भाव्य व्याकरणाधिकरणे जरन्तो मीमांसकाः समाहिता इति भावः। इह प्रकृतिग्रहणं हेतुमात्रपरमिति वृत्तिकृन्मतम्, `पुत्रात् प्रमोदो जायते' इत्युदाहरणात्। उपादानमात्रपरमिति तु भाष्यकैयटमतं, तदुभयसाधारणमुदाहरणमाह–ब्राहृण इति। ब्राहृआ=हिरण्यगर्भ-। स च हेतुरेव न तूपादानम्। किंच मायोपहितं चैतन्यं ब्राहृ, तद्धि सर्वकार्योपादानमिति वेदान्तसिद्धान्तः।

Satishji's सूत्र-सूचिः

TBD.