TBD.
परापूर्वस्य जयतेः प्रयोगे ऽसोढो, यो ऽर्थः सोढुं न शक्यते, तत् कारकम् अपादानसंज्ञं भवति। अध्ययनात् पराजयते। असोढः इति किम्? शत्रून् पराजयते।
TBD.
–
581 पराजेरसोढः। सहधातोः क्तप्रत्यये धत्वढत्वष्टुत्वढलोपेषु कृतेषु `सहिवहोरोदवर्णस्ये'त्योत्त्वे सोढ इति रूपम्। तत्र क्तार्थो भूतकालो न विवक्षितः। तदाह–असह्रोऽर्थ इति। सोढुमशक्य इत्यर्थः। हेतुतृतीयाऽपवादोऽयम्। ग्लायतीत्यर्थ इति। `असहना'दिति शेषः। यदा तु असहनान्निवर्तत इत्यर्थः आश्रीयते, तदा ध्रुवमित्यपादानत्वादेव सिद्धमिति भाष्यम्। अभिभवतीति। तिरस्करोतीत्यर्थः। अत्र शत्रूणामभिभवनीयतया ?सह्रत्वाऽभावान्नापादानता।
521 पराजेः। अध्ययनादिति। अध्ययनसंबन्धिनी ग्लानिरित्यर्थः। कारकशेषत्वेन षष्ठ\उfffदां प्राप्तायामि दम्। पराजयत इति। `विपराभ्यां जेः' इति तङ्। `असोढ'इति क्तार्थो भूतकालो न विवक्षितः। तेनाऽध्ययनात् पराजेष्यत इत्यादि सिद्धम्। नन्वसोढग्रहणं व्यर्थं, शत्रून् पराजयत इत्यत्र परत्वात् कर्मसंज्ञासिद्धेः। अत्रापि वदन्ति—कर्मत्वाऽविवक्षायां शेषषष्ठीं बाधित्वा पञ्चमी स्यात्, सा मा भूदिति कर्तव्यमेवाऽसोढग्रहणमिति।
TBD.