TBD.
ङ्याप् प्रातिपदिकात् स्वादयः, लस्य तिबादयः इति सामान्येन बहुवचनं विहितं, तस्य अनेन बहुत्वसङ्ख्या वाच्यत्वेन विधीयते। बहुषु बहुवचनम् भवति। बहुत्वम् अस्य वाच्यं भवति इति यावत्। कर्मादयो ऽप्यपरे विभक्तीनाम् अर्था वाच्याः। तदीये बहुत्वे बहुवचनम्। कर्माऽदिषु बहुषु बहुवचनम् इत्यर्थः। व्राह्मणाः पठन्ति। यत्र च सङ्ख्या सम्भवति तत्र अयम् उपदेशः। अव्ययेभ्यस् तु निःसङ्ख्येभ्यः सामान्यविहिताः स्वादयो विद्यन्त एव।
TBD.
128 बहुत्वविवक्षायां बहुवचनं स्यात्..
186 बहुषु। पूर्वसूत्राऽवैरूप्यायेहापि बहुशब्दो बहुत्वपर इत्याह–बहुत्व इति। नचात्र सूत्रे बहुशब्दस्य बहुत्वपरत्वेऽपि बहुत्वस्य एकत्वाद्बहुष्विति बहुवचनं कथमिति शङ्क्यम्, बहुत्वसंख्याधरद्रव्यगतबहुत्वस्य बहुत्वगुणे आरोपेण तदुपपत्तेः। बहुत्वं च त्रित्वचतुष्ट्वादिपराद्र्धसङ्ख्याव्यापकीभूतधर्मविशेषः, नतु त्रित्वाद्यन्यतममित्येकादशस्य प्रथमे `बहुवचनेन सर्वप्राप्तेर्विकल्पः स्या'दिति कपिञ्जलाधिकरणे तद्भाष्यवार्तिकयोः स्थितम्। प्रपञ्चितं चास्माभिरध्वरमीमांसाकुतूहलवृत्तौ। एवंच बहुरोदन इति वैपुल्यवाचिनो बहुशब्दान्न बहुवचनम्। द्वयेकयोरित्यादिप्रायपाठबलेन सङ्ख्यानियतस्यैव तथाविधबहुत्वस्यात्र विवक्षितत्वात्। एकस्यामेव स्त्र्यादिव्यक्तौ दारा इत्यादिप्रयोगे त्ववयवबहुत्वस्यावयविन्यारोपाद्बहुवचनं कोशवृद्धव्यवहारबलादित्यलम्। रुत्वविसर्गाविति। रामशब्दात्प्रथमाविभक्तौ एकवचने सुप्रत्यये सति, उकारस्य इत्त्वेन लोपे, `ससजुषो'रिति रुत्वे, `खरवसानयो'रिति विसर्ग इत्यर्थः। स इत्युकारस्तु अर्वणस्त्रसावित्यादौ विशेषणार्थः। असीत्युक्ते हि असकारादावित्यर्थः स्यात्। ततश्च वाजमर्वत्सु इत्यत्र अर्वणस्तृविधिर्न प्रवर्तेत। नचात्र रोरसुप्त्वात्तदन्तस्य पदत्वाऽभावाद्रेफस्य पदान्तत्वाऽभावात्कथमिह विसर्ग इति वाच्यम्। स्थानिवद्भावेन रोः सुप्त्वात्। नच स्थानिवद्भावे कर्तव्ये त्रैपादिकस्य रोरसिद्धत्वं शङ्क्यम्, `इदुदुपधस्य चाप्रत्ययस्ये'त्यप्रत्ययग्रहणेन स्थानिवत्त्वातिदेशे रोरसिद्धत्वाऽभावज्ञापनात्। तत्र ह्रप्रत्ययग्रहणमग्नि><करोति, कविभि><कृतमित्यादौ विसर्गपर्युदासार्थम्। स्थानिवत्त्वे कर्तव्ये रोरसिद्धत्वे तु तत्र विसर्गस्यैवाऽबावात्तद्वैयथ्र्यं स्पष्टमेवेत्यलम्। राम इति। `रमन्ते योगिनो।ञनन्ते सत्यानन्दे चिदात्मनि। इति रामपदेनासौ परं ब्राहृआभिधीयते। इति श्रुतिः। `करणाधिकरणयोश्च' इत्यधिकारे `हलश्च' इत्यधिकरणे घञ्। कृत्तद्धितेति प्रातिपदिकत्वम्। अव्युत्पन्नः संज्ञाशब्दो वा। तथा सति अर्थवदिति प्रातिपदिकत्वम्।
155 बहुषु। अयमपि सङ्ख्यापर एवेत्याह–बहुत्व इति। बहुवचनं त्वाश्रयद्रव्यगतबहुत्वं धर्मे आरोप्य कृतम्। तत्फलं तु `बहुः परव्त' इति वैपुल्यवाचिनो नेह ग्रहणमिति सूचनमेव। वस्तुतो व्यर्थं तत्, परत्वादेकवचनसंभवादिति शब्दकौस्तुभादौ स्थितम्। रुत्वविसर्गाविति। ननु रुत्वस्यासिद्धत्वादुकारस्येत्संज्ञालोपयोरभावात् `स्थानिवदादेशः' इत्यस्यापि त्रिपाद्यामप्रवृत्त्या रेफान्तस्य `सुप्तिङ्न्त'मिति पदसंज्ञाऽभावेन विसर्गोऽत्र दुर्लभः। विसर्गविधेस्तु `पुन'रित्यादौ चरितार्थत्वादिति चेन्मैवम्, `न मु ने' इति सूत्रे `ने'ति योगं विभज्य `असिद्धं ने'ति व्याख्यायामिष्टसिद्धिरित्युक्तत्वात्। राम इति। संज्ञाशब्दोऽयमव्युत्पन्न इति पक्षेऽर्थवत्सूत्रेण प्रातिपदिकसंज्ञा, `करणाधिकरणयोश्चे'त्याधिकारे घापवादेन `हलश्चे'ति घञा रमन्तेऽस्मिन्निति व्युत्पादने तु `कृत्तद्धिते'ति सूत्रेणेति विवेकः। अत्र केचित्परिश्कुर्वन्ति– `गन्धर्वः शरभो रामः सृमरो गवयः शशः। इत्यादयो मृगेन्द्राद्या गवाद्याः पशुजातयः इत्यमरोक्तया यदि पशुविशेषे प्रयुज्यते तदा रूढोऽयं रामशब्द इत्यर्थवत्सूत्रेण संज्ञा। यदा तु रामचन्द्रे भगवति प्रयुज्यते तदा रमन्ते योगिनोऽस्मिन्निति व्युत्पत्त्याश्रयणात्कृद्धितेति सूत्रेण संज्ञेति। सरूपाणामेकशेषः। इतरनिवृत्तिपूर्वकमवस्थानं शेषशब्दार्थः। न च विरूपेष्वेकशेषाऽप्रवृत्त्या `घटकलशा'विति द्वन्द्वापत्तिरिति शङ्क्यम्, `वुरूपाणा'मिति वार्तिकस्य वक्ष्यमाणत्वात्। वस्तुतस्तु सूत्राक्षरैरेव वार्तिकार्थो लभ्यते। रूप्यते बोध्यते। इति रूपमर्थः, समानं रूपं येषामिति सरूपाः। ज्योतिर्जनपदेत्यादिना समानस्य सभावः। तथा समानं रूपं स्वरूपं येषां ते सरूपाः। सरूपाश्च सरूपाश्च सरूपाः, तेषामित्येकशेषेण व्याख्यानात्। न च स्वाङ्गे स्वव्यापाराऽयोगो वाक्यापरिसमाप्तिन्यायादिति वाच्यम् ; उद्देश्यतावच्छेदकरूपाक्रान्ततया स्वस्मिन्नपि प्रवृत्तेः। अन्यथा `तुल्यास्यप्रयत्न'मित्यादौ सवर्णदीर्घो न स्यात्। तथाऽर्थवत्सूत्रान्तर्गतानां प्रातिपदिकत्वं, `प्रत्ययः' `परश्चे'त्यत्र सुप्प्रत्ययः, `ससजुषो'रित्यत्र रुः, `खरवसानयो'रिति सूत्रे विसर्गश्च न स्यादिति सर्वोपप्लवः स्यात्। `स्वाध्यायोऽध्येतव्यः' इत्यस्य `नेह नाने'त्यादिश्रुतेश्च स्वस्मिन्नपि यथा प्रवृत्तिस्तथा दीर्घादीनामपीति चेत्तुल्यमेकशेषेऽपि। एतेन `ऐउ'णित्यादौ `आद्गुणः' इत्यादिसन्धिकार्यं कुतो नेत्याशङ्कायाम्– `वर्णोपदेशकालेऽजादिसंज्ञानामनिष्पादात्सन्धिर्ने'ति केषाञ्चित्समाधानं परास्तम्। वर्णोपदेशे इत्संज्ञायामत्प्रत्याहारे च निष्पन्ने प्रवर्तमानानां गुणादीनामुपेन्द्र इत्यादौ तटस्थ इव उद्देश्यतावच्छेदकरूपाक्रान्ते वर्णोपदेशादावपि प्रवृत्तेरावश्यकत्वात्। स्यादेतत्–`सरूपाणामेक एकविभक्तौ' इत्येव सूत्रमस्तु, किमनेन `शेष'ग्रहणेन ?। अत्राहुः–तथाहि सति सरूपाणां स्थाने एकोऽन्तरतम आदेशो भवतीत्यर्थः स्यात्। तथा चा\उfffदाश्चा\उfffदाश्चेत्यत्रोदात्तद्वयवतः स्थाने उदात्तद्वयवानादेशस्तथाऽनुदात्तद्वयवतः स्थानेऽनुदात्तद्वयवानादेशः प्रसज्येतेति। एकविभक्तौ यानीति। विभक्तिः सारूप्ये उपलक्षणं न त्वेकशैषे निमित्तम्। एवं चाऽनैमित्तिकत्वेनान्तरङ्गोऽयमेकशेषः सुबुत्पत्तेः प्रागेव प्रवर्तते। यद्योतन्नारभ्येत तर्हि प्रत्येकं विभक्तिः स्याद्द्वन्द्वश्च प्रवर्तते। आरब्धे त्वेकशेषेऽनेकसुबन्तविरहाद्द्वन्द्वस्य प्राप्तिरेव नास्तीति भावः। ननु सुबुत्पत्तेः प्रागेकशेषप्रवृत्तौ शिष्यमाणं यत्प्रातिपदिकं तदेकमेवार्थं बोधयतीति द्विवचनाद्यनुत्पत्तौ `रामौ' `र#आमा' इत्यादि न सिध्येत्। नैष दोषः, शिष्यमाणस्य लुप्यमानार्थाभिधीयित्वात्। अतएव `कृत्तद्धितसमासैकशेषे'त्येकशेषो वृत्तषु गण्यते। परार्थाभिधानं हि वृत्तिः। अतएव च लुप्तेऽपि प्रत्यये`लिङ्'`धु'गित्यादौ कर्ता प्रतीयत इति दिक्।
TBD.