Table of Contents

<<1-3-79 —- 1-3-81>>

1-3-80 अभिप्रत्यतिभ्यः क्षिपः

प्रथमावृत्तिः

TBD.

काशिका

क्षिप प्रेरणे स्वरितेत्। ततः कर्त्रभिप्रायक्रियाफलविवक्षायाम् आत्मनेपदे प्राप्ते परस्मैपदं विधीयते। अभि प्रति अति इत्येवं पूर्वात् क्षिपः परस्मैपदं भवति। अभिक्षिपति। प्रतिक्षिपति। अतिक्षिपति। अभिप्रत्यतिभ्यः इति किम्? आक्षिपते। द्वितीयम् अपि कर्तृग्रहणम् अनुवर्तते, तेन इह न भवति, अभिक्षिप्यते स्वयम् एव।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

749 क्षिप प्रेरणे स्वरितेत्. अभिक्षिपति..

बालमनोरमा

571 अभिप्रति। `परस्मैपद'मिति शेषः। स्वरितेदिति। ततश्च कर्तृगामिनि फले आत्मनेपदे प्राप्ते अनेन तत्रापि परस्मैपदमिति भावः। अभिक्षिपतीति। प्रतिक्षपति अतिक्,#इपतीत्यप्युदाहार्यम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.