Table of Contents

<<1-3-75 —- 1-3-77>>

1-3-76 अनुपसर्गाज् ज्ञः

प्रथमावृत्तिः

TBD.

काशिका

कर्त्रभिप्राय इति वर्तते। अनुपसर्गाज् जानातेः कर्त्रभिप्राये क्रियाफले आत्मनेपदं भवति। गां जानीते। अश्वं जाणीते। अनुपसर्गातिति किम्? स्वर्गं लोकं न प्रजानाति मूढः। कर्त्रभिप्राये इत्येव, देवदत्तस्य गं जानाति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

567 अनुपसर्गाज्ज्ञः। अनुपसर्गाज्ज्ञादातोरात्नेपदमित्यर्थः। `अकर्मकाच्चे'त्येव सिद्धे सकर्मकार्थमिदम्। तदाह–गां जानीते इति। कथमिति। अनुपूर्वकस्य अनुमत्यर्थकस्य ज्ञाधातोरुपसर्गपूर्वकतया प्रकृतसूत्रस्याऽप्रवृत्तेः सकर्मकतया `अकर्मकाच्चे'त्यस्याप्यप्रवृत्तेरनुजज्ञे इतिकथमात्मनेपदमित्यर्थः। समाधत्ते- - कर्मणि लिडिति। तथा च `भावकर्मणोटरित्यात्मनेपदमिति भावः। सुतस्य गमनमनुज्ञातमित्यर्थः फलति। नन्वेवं सति `नृप' इति प्रथमान्तरस्य कथमिहान्वय इत्यत आह– नृपेणेति विपरिणाम इति। अवालुलोचे इत्यत्रान्वितं नृप इति प्रथमान्तरं तृतीयया विपरिणमितमत्रानुषज्यते इत्यर्थः।

तत्त्वबोधिनी

469 अनुपसर्गाज्ज्ञः। अकर्मकाच्चेत्येव सिद्धे सकर्मकार्थ आरम्भः।

Satishji's सूत्र-सूचिः

TBD.