TBD.
णेः इति वर्तते। अकर्त्रभिप्रायार्थो ऽयमारम्भः। लीङ् श्लेषणे इति दिवादौ पठ्यते ली श्लेषणे इति च क्र्यादौ। विशेषाभावाद् द्वयोरपि ग्रहणम्। लियो ण्यन्तात् संमानने शालीनीकरणे च वर्तमानादात्मनेपदं भवति। चशब्दात् प्रलम्भने च। सम्माननं पूजनम् जटाभिरालापयते। पूजां समधिगच्छति इत्यर्थः। शालीनीकरणं न्यग्भावनम् श्येनो वर्तिकामुल्लापय्ते। न्यक्करोति इत्यर्थः। प्रलम्भने कस्त्वामुल्लापयते। विसंवादयति इत् यर्थः। विभाषा लीयतेः 6-1-51 इति वा आत्वं विधीयते। तदस्मिन् विषये नित्यम् अन्यत्र विकल्पः। व्यवस्थितविभाषा हि सा। सम्माननादिषु इति किम्? बालकमुल्लापयति।
TBD.
–
420 लियः संमानन। `लिय' इतिलीलीङोग्र्रहणम्। `अनुदात्तङितः' इत्यत् आत्मनेपदमिति, `णेरणौ' इत्यतो णेरिति चानुवर्तते। `णिचश्चे'ति सिद्देऽकत्र्रभिप्रायार्थमिदम्। संमाननं - पूजालाभः। शालिनीकरणम् - अभिनवः। चकारात् `गृधिवच्च्यो'रितिपूर्वसूत्रात्प्रलम्भनग्रहणं समुच्चीयते। तदाह- - लीङ्लियोरित्यादिना।
368 लियः संमानन। चात्प्रलम्भने।
TBD.