TBD.
णेः इति वर्तते। अकर्त्रभिप्रायार्थो ऽयमारम्भः। विभेतेः स्मयतेश्च ण्यन्तादात्मनेपदं भवति हेतुभये। हेतुः प्रयोजकः कर्ता लकारवाच्यः, ततश्चेद् भयं भवति। भयग्रहणम् उपलक्षणार्थम्, विस्मयो ऽपि तत एव? जटिलो भीषयते। मुण्डो भीषयते। जटिलो विस्मापयते। मुण्डो विस्मापयते। हेतुभये इति किम्? कुञ्चिकयैनं भाययति। रूपेण विस्माययति। अत्र कुञ्चिका भयस्य करणम्, न हेतुः।
TBD.
–
422 भीस्म्योर्हेतुभये। `अनुदात्तङितः'इत्यत आत्मनेपदमिति, `णेरणौ' इत्यतो णेरिति चानुवर्तते। हेतुः- प्रयोजकः। तदाह - आभ्यां ण्यन्ताभ्यामित्यादि अकत्र्रभिप्रायार्थमिदम्। ननु हेतोश्चेद्भयस्मयावित्यनुवपपन्नं, सूत्रे स्मयग्रहणाऽभावादित्यत आह–सूत्रे भयेति। सूत्रे भयग्रहणं स्मिङ्घात्वर्थस्य स्मयस्याप्युलक्षणमित्यर्थः। मुण्डो भापयते इति। अत्र आत्त्वं पुक्, आत्मनेपदं च। भिय आत्त्वाऽभावपक्षे विशेषमाह–
370 भीस्म्योः। व्यत्ययेन षष्ठीत्याह— आभ्यामिति। `णेरणौ' इत्यतो णेरित्यनुवृत्तेण्र्यन्ताभ्यामेव विधिरकत्र्रभिप्रायार्थः।
TBD.