Table of Contents

<<1-3-57 —- 1-3-59>>

1-3-58 न अनोर् ज्ञः

प्रथमावृत्तिः

TBD.

काशिका

पूर्वेण योगेन प्राप्तम् आत्मनेपदम् प्रतिषिध्यते। अनुपूर्वाज् जानातेः सन्नन्तादात्मनेपदं न भवति। तथा च सति सकर्मकस्य एव अयं प्रतिषेधः सम्पद्यते। पुत्रम् अनुजिज्ञासति। अनोः इति किम्? धर्मं जिज्ञासते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

556 नानोर्ज्ञः। अनुपूर्वाज्ज्ञाधातोः सन्नन्तान्नात्मनेपदमित्यर्थः। पुत्रमनुजिज्ञासतीति। अनुज्ञातुमिच्छतीत्यर्थः। ननु सर्पिषा प्रवर्तितुमिच्छतीत्यर्थे `सर्पिषोऽनुजिज्ञासते' ईत्यत्रापि `अपह्नवे ज्ञः', `अकर्मकाच्चे'त्यात्मनेदस्याप्यनेन निषेधे सति सन्नन्तात्परस्मैपदमेव स्यादित्यत आह– पूर्वसूत्रस्थेवेति। एवं च `सर्पिषोऽनुजिज्ञासते' इत्यत्र `अकर्मकाच्चे'त्यात्मनेपदं निर्बाधमिति भावः। ननु `अकर्मकाच्चे'ति ज्ञाधातोरात्मनेपदे सन्नन्तात्कथममात्मनेपदलाभ इत्यत आङ– पूर्ववदिति। केवलात्सन्विहीनाज्ज्ञाधातोरात्मनेपदविधानात्सन्न्नतादपि तस्मात् `पूर्ववत्सनः' इत्यात्मनेपदमित्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.