Table of Contents

<<1-3-58 —- 1-3-60>>

1-3-59 प्रत्याङ्भ्यां श्रुवः

प्रथमावृत्तिः

TBD.

काशिका

प्रति आङित्येवं पूर्वाच्छृणोतेः सन्नन्तादात्मनेपदं न भवति। प्रतिशुश्रूषति। आशुश्रूषति। उपसर्गग्रहणं चेदं, तस्मादिह प्रतिषेधो न भवति , देवदत्तं प्रति शुश्रूषते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

557 प्रत्याङ्भ्यां श्रुवः। उक्तं नेति। आत्मनेपदं नेत्यर्थः। प्रत्याङाविहोपसर्गावेव गृह्रेते, व्याख्यानात्। तदाह- - कर्मप्रवचनीयात्स्यादेवेति। `आत्मनेपद'मिति शेषः। देवदत्तं प्रतीति। `लक्षणेत्थम्भूते'ति प्तिः कर्मप्रवचनीयः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.