Table of Contents

<<1-3-56 —- 1-3-58>>

1-3-57 ज्ञाश्रुस्मृदृशां सनः

प्रथमावृत्तिः

TBD.

काशिका

ज्ञा श्रु समृ दृशित्येतेषां सन्नन्तानाम् आत्मनेप्दं भवति। तत्र जानातेः अपह्नवे ज्ञः 1-3-44 इति त्रिभिः सूत्रैरात्मनेपदं विहितम्, श्रुदृशोरपि समो गम्यृच्छि 1-3-29) इत्यत्र विहितम्। तस्मिन् विषये पूर्ववत् सनः (*1,3.62 इत्येव सिद्धम् आत्मनेपदम्। ततो ऽन्यत्र अनेन विधीयते। स्मरते पुनरप्राप्त एव विधानम्। धर्मं जिज्ञासते। गुरुं शुश्रूषते। नष्टं सुस्मूर्षते। नृपं दिदृक्षते। सनः इति किम्? जानाति, शृणोति, स्मरति, पष्यति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

555 ज्ञानश्र। प्राग्वदिति। आत्मनेपदमित्यर्थः। यद्यपि `अपह्नवे ज्ञः, `अकर्मकाच्च' `सम्प्रतिभ्यानाध्याने' इति सूत्रैः, `अर्तिश्रुदृशिभ्यश्चे'ति वार्तिकेन च ज्ञादिभ्य आत्मनेपदे कृते `पूर्ववत्सनः' इत्यात्मनेपदं सिद्धम्, `तथाप्यपह्नवाद्यभावेऽप्यात्मनेपदार्थं ज्ञाश्रुदृशीनामिह ग्रहणमिति मत्वोदाहरति- - धर्मं जिज्ञासते इति। ज्ञातुमिच्छतीत्यर्थः। शुश्रूषते इति। `अज्झनगमां सनी'ति दीर्घः। `इको झ'लिति सनः कित्त्वम्। `श्र्युकः किती'ति इण्निषेधः। सुस्मूर्षते इति। स्मृधातोः सनि `अज्झने'ति दीर्घे `उदोष्ठ\उfffद्पूर्वस्ये'त्युत्त्वे रपरत्वे `हलि चे'ति दीर्घः।

तत्त्वबोधिनी

462 ज्ञाश्रुस्मृ। `अपह्नवे ज्ञः' इत्यादिना ज्ञादातोः, `अर्तिश्रुदृशिभ्यश्चे'ति श्रुदृ शिभ्यां चात्मनेपदे कृते तस्मिन्विषये `पूर्ववत्सनः' इत्यनेन सिद्धेऽपि विषयान्तरे सन्नन्तादनेन विधीयत इति ज्ञेयम्।

Satishji's सूत्र-सूचिः

627) <strong>ज्ञाश्रुस्मृदृशां सनः</strong> 1-3-57 वृत्तिः सन्नन्तानामेषामात्मनेपदं स्यात् । A आत्मनेपदम् affix is used after a desiderative form of any of the following verbal roots - √ज्ञा (ज्ञा अवबोधने ९. ४३), √श्रु (श्रु श्रवणे १. १०९२), √स्मृ (स्मृ चिन्तायाम् १. १०८२) or √दृश् (दृशिँर् प्रेक्षणे १. ११४३).

उदाहरणम् - दिदृक्षते is a desiderative form derived from √दृश् (दृशिँर् प्रेक्षणे १. ११४३).
The विवक्षा is लँट्, कर्तरि, सन्नन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

दृश् + सन् 3-1-7
= दृश् + स 1-3-3, 1-3-9. Note 7-2-10 stops 7-2-35
Note: By 1-2-10 the affix सन् is a कित् here. Hence 1-1-5 stops 7-3-86
= दृश् स् दृश् स 6-1-9
= दर् श् स् दृश् स 7-4-66, 1-1-51
= द दृश् स 7-4-60
= दि दृश् स 7-4-79
= दि दृष् स 8-2-36
= दि दृक् स 8-2-41
= दिदृक्ष 8-3-59

“दिदृक्ष” gets धातु-सञ्ज्ञा by 3-1-32
दिदृक्ष + लँट् 3-2-123 = दिदृक्षते 1-3-57. Note: 1-3-57 is a अपवादः (exception) to 1-3-62