Table of Contents

<<1-3-55 —- 1-3-57>>

1-3-56 उपाद् यमः स्वकरने

प्रथमावृत्तिः

TBD.

काशिका

शेषात् कर्तरि परस्मैपदे प्राप्ते उपपूर्वात् यमः स्वकरणे वर्तमानादात्मनेपदं भवति। पाणिग्रहणविशिष्टम् इह स्वकरनम् गृह्यते, न स्वकरणमात्रम्। भार्याम् उपयच्छते। स्वकरणे इति किम्? देवदत्तो यज्ञदत्तस्य भार्याम् उपयच्छति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

553 उपाद्यमः। `आत्मनेपद'मिति शेषः। ननु `स्वं वरुआमुत्पादयती'त्यर्थे `वस्त्रमुपयच्छती'त्यत्राप्यात्मनेपदं स्यादित्यत आह–स्वकरणं स्वीकार इति। अस्वस्य सतः स्वत्वेन परिग्रहः स्वकरणशब्देन विवक्षित इत्यर्थः। च्विप्रत्ययस्तु वैकल्पिकः, `समर्थानां प्रथमाद्वे'त्युक्तेरिति भाष्ये स्पष्टम्।

तत्त्वबोधिनी

460 स्वकरणं स्वीकार इति। स्वकरणमित्यत्र च्विर्न भवति, `समर्थानां प्रथमाद्वे'ति विकल्पात्। स्वकरणशब्देन भार्यास्वीकारो गृह्रते इति वृत्तिकृत्। भट्टिस्तु स्वीकारमात्रेऽपि प्रायुङ्क्त `उपायंस्त महाऽस्त्राणी'ति।

Satishji's सूत्र-सूचिः

TBD.