Table of Contents

<<1-3-54 —- 1-3-56>>

1-3-55 दाणश् च सा चेच् चतुर्थ्यर्थे

प्रथमावृत्तिः

TBD.

काशिका

चाण् दाने परस्मैपदी। ततः सम्पूर्वात् तृतीयायुक्तातात्मनेपदं भवति, सा चेत् तृतीया चतुर्थ्यर्थे भवति। कथं पुनस् तृतीया चतुर्थ्यर्थे स्यात्? वक्तव्यम् एव एतत् अशिष्टव्यवहारे तृतीया चतुर्थ्यर्थे भवति इति वक्तव्यम्। दास्य संप्रयच्छते। वृषल्या संप्रयच्छते। कामुकः सन् दास्यै ददाति इत्यर्थः। चतुर्थ्यर्थे इति किम्? पाणिना सम्प्रयच्छति। समः प्रशब्देन व्यवधाने कथम् आत्मनेपदं भवति? समः इति विशेषणे षष्ठी, न पञ्चमी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

744 सम्पूर्वाद्दाणस्तृतीयान्तेन युक्तादुक्तं स्यात् तृतीया चेच्चतुर्थ्यर्थे. दास्या संयच्छते कामी..

बालमनोरमा

552 दाणश्च सा। `समस्तृतीयायुक्ता'दित्यनुवर्तते। तदाह–संपूर्वादिति। उक्तं स्यादिति। आत्मनेपदमित्यर्थः। सा चेदिति। तच्छब्देन तृतीया परामृश्यते। तदाह– तृतीया चेदिति। दास्या संयच्छते इति। `अशिष्टव्यवहारे दाणः प्रयोगे चतुथ्र्यर्थे तृतीया वाच्या' इति तृतीया। ननु `रथेन समुदाचरते इत्यत्र `समस्तृतीयायुक्ता'दिति पूर्वसूत्रस्य न प्रवृत्तिः, आङा व्यवहितत्वेन सम्पूर्वकत्वाऽभावात् `त्समादित्युत्तरस्ये'ति परिभाषया सम इति पञ्चम्या चरेरव्यवहितपरत्वलाभात्। तथा `दास्या संप्रयच्छते' इत्यत्रापि `दाणश्च सा चे'दिति कथं प्रवर्तते, प्रशब्देन व्यवधानादित्यत आह– पूर्वसूत्रे सम इति षष्ठीति। तथा च षष्ठ\उfffदा पौर्वापर्यमेव गम्यते, न त्वव्यवहितत्वमिति भावः। तेनेति। षष्ठ\उfffदाश्रयणेनेत्यर्थः। सूत्रद्वयमिति। `समस्तृतीयायुक्ता'दिति पूर्वसूत्रस्थस्य षष्ठ\उfffद्न्तस्यैव समः `दाणश्चे'ति सूत्रेऽप्यनुवृत्तेरिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.