Table of Contents

<<1-3-53 —- 1-3-55>>

1-3-54 संस् तृतीयायुक्तात्

प्रथमावृत्तिः

TBD.

काशिका

सम्पूर्वाच् चरतेस् तृतीयायुक्तादात्मनेपदं भवति। तृतीया इति तृतीयाविभक्तिर् गृह्यते, तया चरतेरर्थद्वारको योगः। अश्वेन सञ्चरते। तृतीयायुक्तातिति किम्? उभौ लोकौ सञ्चरसि इमं च अमुं च देवल। यद्यप्यत्र तदर्थयोगः सम्भवति, तृतीया तु न श्रूयते, इति प्रत्युदाहरणं भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

743 रथेन सञ्चरते..

बालमनोरमा

551 समस्तृतीया। सकर्मकादिति निवृत्तम्। संपूर्वात्तृतीयान्तसमभिव्याह्मताच्चरेरात्मनेपदमित्यर्थः। तृतीयायुक्तादिति किम् ?। रथिकाः संचरन्ति। अत्र यद्यपि रथेनेत्यर्थाद्गम्यते, तथापि तृतीयान्तश्रवणाऽभावान्नात्मनेपदम्। एतदर्थमेव योगग्रहणम्। अन्यथा `तृतीयये'त्येवावक्ष्यत्। सकर्मकादप्येतदात्मनेपदं भवति, अविशेषात्, अत एव`तृतीयायुक्तादिति किम् ?। उभौ लोकौ संचरसीभं चामुं च लोक'मिति भाष्यं सङ्गच्छते।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.