Table of Contents

<<1-3-49 —- 1-3-51>>

1-3-50 विभाषा विप्रलापे

प्रथमावृत्तिः

TBD.

काशिका

वदः इति वर्तते, व्यक्तवाचां समुच्चारणे इति च। विप्रलापात्मके व्यक्तवाचां समुच्चारने वर्तमानाद् वदतेरात्मनेपदं भवति विभाषा। प्राप्तविभाषेयम्। विप्रवदन्ते संवत्सराः, विप्रवदन्ति सांवत्सराः। विप्रवदन्ते मौहूर्ताः, विप्रवदन्ति मौहूर्ताः। युगपत् परस्परप्रतिषेधेन विरुद्धं वदन्ति इत्यर्थः। विप्रलापे इति किम्? संप्रवदन्ते ब्राह्मणाः। व्यक्तवाचाम् इत्येव। विप्रवदन्ति शकुनयः। समुच्चारणे इत्येव। क्रमेण मौहूर्ता मौहूर्तेन सह विप्रवदन्ति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

547 विभाषा विप्रलापे। `व्यक्तवाचां समुच्चारणे' इत्यनुवर्तते। विरुद्धोक्तिर्विप्रलापः। तदाह– विरुद्धोक्तिरूपे इति।

तत्त्वबोधिनी

459 विभाषा विप्रलापे। अप्राप्तविभाषा।

Satishji's सूत्र-सूचिः

TBD.