Table of Contents

<<1-3-44 —- 1-3-46>>

1-3-45 अकर्मकाच् च

प्रथमावृत्तिः

TBD.

काशिका

अकर्त्रभिप्रायार्थम् इदम्। कर्त्रभिप्राये हि अनुपसर्गाज् ज्ञः 1-3-76 इति वक्ष्यति। जानातेरकर्मकादकर्मकक्रियावचनादात्मनेपदं भवति। सर्पिशो जानीते। मधुनो जानीते। कथं च अयम् अकर्मकः? न अत्र सर्पिरादि ज्ञेयत्वेन विवक्षितम्। किं तर्हि? ज्ञानपूर्विकायां प्रवृत्तौ करणत्वेन। तथा च ज्ञो ऽविदर्थस्य करणे 2-3-51 इति षष्ठी विधीयते सर्पिषो जानीते, मधुनो जानीते। सर्पिशा उपायेन प्रवर्तते इत्यर्थः। अकर्मकातिति किम्? स्वरेण पुत्रं जानाति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

741 सर्पिषो जानीते. सर्पिषोपायेन प्रवर्तत इत्यर्थः..

बालमनोरमा

542 अकर्मकाच्च। `ज्ञ आत्मनेपदटमिति शेषः। सर्पिषो जानीते इति। अत्र ज्ञाधातुः प्रवृत्तौ वर्तते। `ज्ञोऽविदर्थस्य करणे' इति तृतीयार्थे षष्ठी। तदाह- - सर्पिषोपायेन प्रवर्तते इति। `अनुपसर्गाज्ज्ञः' इति वक्ष्यमाणेनैव सिद्धे सोपसर्गार्थमिदम्। सर्पिषोऽनुजानीते।

तत्त्वबोधिनी

456 अकर्मकाच्च। `अनुपसर्गाज्ज्ञः' इत्यनेनैव सिद्धे `सर्पिषोऽनुजानीते' इत्यादिसोपसर्गार्थमिदं सूत्रम्।

Satishji's सूत्र-सूचिः

TBD.