Table of Contents

<<2-3-50 —- 2-3-52>>

2-3-51 ज्ञो ऽविदर्थस्य करणे

प्रथमावृत्तिः

TBD.

काशिका

जानातेरविदर्थस्य अज्ञानार्थस्य करणे कारके षष्ठी विभक्तिर् भवति। सर्षिषो जानीते। मधुनो जानीते। सर्पिषा करणेन प्रवर्तते इत्यर्थः। प्रवृत्तिवचनो जानतिरविद्ःअर्थः। अथ व मिथ्याज्ञानवचनः। सर्पिषि रक्तः प्रतिहतो वा। चित्तभ्रान्त्या तदात्मना सर्वम् एव ग्राह्यं प्रतिपद्यते। मिथ्याज्ञानम् अज्ञानम् एव। अविदर्थस्य इति किम्? स्वरेण पुत्रं जानाति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

604 ज्ञोऽविदर्थस्य। ज्ञः-अविदर्थस्येति च्छेदः। `ज्ञ' इति ज्ञाधातोरनुकरणात्षष्ठ\उfffदेकवचनम्। वित्=ज्ञानं अर्थो यस्य विदर्थः, स न भवतीति अविदर्थः। ज्ञानार्थकभिन्नस्येति यावत्। तदाह–जानातेरज्ञानार्थस्येति। शेषत्वेनेति। संबन्धत्वेनेत्यर्थः। शेष इत्यनुवृत्तेरिति भावः। सर्पिषो ज्ञानमिति। वस्तुतः करणीभूतं यत्सर्पिस्तत्संबन्धिनी प्रवृत्तिरित्यर्थः। अविदर्थस्येति लिङ्गादेव `ज्ञा अवबोधने' इति धातोः प्रवृत्तौ वृत्तिः। `षष्ठी शेषे' इति सिद्धेऽपि `प्रतिपदविधाना षष्ठी न समस्यते' इत्येतदर्थं वचनम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.