TBD.
नयतेः कर्ता देवदत्ताऽदिर् लकारवाच्यः। कर्तृस्थे कर्मण्यशरीरे सति नयतेरात्मनेपदं भवति। शरीरं प्राणिकायः, तदेकदेशो ऽपि शरीरम्। क्रोधं विनयते। मन्युं विनयते। कर्तृस्थे इति किम्? देवदत्तो यज्ञदत्तस्य क्रोधं विनयतेइ। अशरीरे इति किम्? गडुं विनयति। घाटां विनयति। कर्मणि इति किम्? बुद्ध्या विनयति। प्रज्ञया विनयति।
TBD.
–
533 कर्तृस्थे। निय इति। कर्मकारके कर्तृस्थे सति णीञ्धातोर्यदात्मनेपदं कर्तृगे फले ञित्त्वात्प्राप्तं, तच्छरीरावयवभिन्न एव सति कर्मकारके स्यात्। कर्मणः शरीरावयवत्वे तु कर्तृगेऽपि फले परस्मैपदमेवेत्यर्थः। ननु सूत्रे शरीरग्रहणात्कथं शरीरावयवेत्युक्तमित्यत आह– सूत्रे इति। शीरतादात्म्यापन्नस्यैव कर्तृतया शरीरस्य कर्तृस्थ्तवं न संभवति। शरीरावयवानां तु समवायेन आधारतया तत्संभवतीति भावः। ननु क्रोधापगमस्य क्रोध विषयशत्रुगताऽनिष्टपरिहारफलकत्वाञ्ञित्वेऽप्यात्मनेपदऽप्राप्तेस्तद्विध्यर्थत्वात्कथमुक्तनियमार्थत्वमस्य सूत्रस्येत्यत आह– तत्फलस्येत्यादि। गडुं विनयतीति। कर्मणो गडोः शरीरावयवत्वान्नात्मनेपदमित्यर्थः। कथं तर्हीति। पौरुषस्य कर्मणः शरीरावयवभिन्नतया आत्मनेपदप्रसङ्गादिति भावः। कर्तृगामित्वेति। कर्तृस्थे कर्मणि नियः कर्तृगे फले ञित्त्वात् प्राप्तमात्मनेपदं शरीरावयवभिन्न एवेति नियम्यते, ननु विधीयते। अत्र तु फलस्य कर्तृगामित्वं सदपि न विवक्षितम्, अतो नात्मनेपदमिति भावः।
451 कर्तृस्थे। कर्मणीति। आत्मगामिनि क्रियाफले इत्यर्थः।
TBD.