Table of Contents

<<1-3-35 —- 1-3-37>>

1-3-36 सम्माननौत्सञ्जनाऽचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः

प्रथमावृत्तिः

TBD.

काशिका

णीञ् प्रापणे। अस्मात् कर्त्रभिप्राये क्रियाफले सिद्धम् एवाऽत्मनेपदम्। अकर्त्रभिप्रयार्थो ऽयम् आरम्भः। णीञ् प्राप्णे इत्येतस्मात् धातोरात्मनेपदं भवति सम्माननाऽदिषु विशेषणेषु सत्सु। सम्माननं पूजनम् नयते चार्वी लोकायते। चार्वी बुद्धिः, तत्सम्बन्धादचार्ये ऽपि चार्वी। स लोकायते शास्त्रे पदार्थान् नयते, उपपत्तिभिः स्थिरीकृत्य शिष्येभ्यः प्रापयति। ते युक्तिभिः स्थाप्यमानाः सम्मानिताः पूजिता भवन्ति। उत्सञ्जनम् उत्क्षेपणम् माणवकम् उदानयते। उत्क्षिपति इत्यर्थः। आचार्यकरणम् आचार्यक्रिया माणवकम् ईदृशेन विधिना आत्मसमीपं प्राप्यति यथा स उपनेता स्वयम् आचार्यः सम्पद्यते। माणवकम् उपनयते। आत्मानम् आचार्यीकुर्वन् माणवकम् आत्मसमीपं प्रापयति इत्यर्थः। ज्ञानं प्रमेयनिश्चयः नयते चर्वी लोकयते। तत्र प्रमेयं निश्चिनोति इत्यर्थः। भृतिर्वेतनम् कर्मकरानुपनयते। भृतिदानेन समीपं करोति इत्यर्थः। विगणनम् ऋणादेर् निर्यातनम् मद्राः करम् विनयन्ते। निर्यातयन्ति इत्यर्थः। व्ययो धर्माऽदिषु विनियोगः। शतं विनयते। सहस्रं विनयते। धर्माऽद्यर्थं शतम् विनियुङ्क्ते इत्यर्थः। एतेषु इति किम्? अजां नयति ग्रामम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

532 संमननोत्सञ्जना। एषु गम्येषु णीञ्धातोरात् मनेपदमित्यर्थः। परगामिन्यपि फले आत्मनेपदार्थमिदम्. इतरे इति। संमाननाऽऽचार्यकरणप्रभृतय इत्यर्थः। प्रयोगोपाधय इति। वाच्यत्वाऽभावेऽपि आर्थिकाः सत्तामात्रेण शब्दप्रयोगे निमित्तभूता इत्यर्थः। आत्मनेपदद्योत्या इति यावत्। तदेवोपपादयितुं प्रतिजानीते– तथा हीति। संमानने उदाहरति– शास्त्रे नयते इति। अत्र णीञ् प्रापणार्थकः। `सिद्धान्तप्रापणेनेत्यर्थः। फलितमिति। अर्थादिति भावः। उत्सञ्जने इति। `उदाह्यियते' इति शेषः। उत्सञ्जनमुत्क्षेपः। उत्क्षिपतीत्यर्थ इति। धातूनामनेकार्थत्वादिति सत्त्या प्रापयित्रपेक्षमेव। तच्च माणवकीयमात्मसमीपप्रापणं वैधमेव विवक्षितम्, पूर्वोत्तराऽङ्गकलापाम्नासामथ्र्यात्। तदाह— विधिना आत्मसमीपं प्रापयतीति। तत्राऽऽचार्यकरणस्यार्थिकत्वमुपपादयति– उपनयनपूर्वकेणेति। `माणवकमुपनयीत,तमध्यापयीते'त्यध्यापनार्थत्वमुपनयनस्याऽवगतम्, अध्यापनादाचार्यत्वं संपद्यते, `उपनीय तु यः शिष्यं वेदमध्यापयेद्द्विजः। सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते।' इतिस्मरणात्. तथा च आचार्यकरणमुपनयनसाध्यत्वादार्थिकहरति- - कर्मकरानुपनयते इति। भृतिः = वेतनं। तदर्थ#ं कर्म करोतीति कर्मकरः। `कर्मणि भृतौ' इति टप्रत्ययः। कर्मण्युपपदे कृञष्टः स्यात्कर्तरीति तदर्थः। उपपूर्वको णीञ् समीपप्रापणार्थकः। तदाह– राज्ञे देयं भागंपरिशोधयतीति। परिगणयति दातुमित्यर्थः। व्यये उदाहरति– शतं विनयते धर्मार्थमिति। अत्र विपूर्वो णीञ् व्ययार्थकः। तदाह- - विनियुङ्क्ते इत्यर्थ इति।

तत्त्वबोधिनी

450 संमाननो। उपनयनपूर्वकेणेति। उपनयनं– वटुसंस्कारः।तस्य परगामित्वात्परस्मैपदं प्राप्ते अनेनात्मनेपदं विधीयते। नह्रुपनयनमात्रेण आचार्यत्वं भवति किं तु तत्पूर्वकाध्यापनेनेत्याचार्यकरणस्य प्रयोगोपाधित्वं परपरया ज्ञेयम्। `उपनीय ददद्वेदमाचार्यः स उदाह्मतःर' इति स्मृतिः।

Satishji's सूत्र-सूचिः

TBD.