Table of Contents

<<1-3-34 —- 1-3-36>>

1-3-35 अकर्मकाच् च

प्रथमावृत्तिः

TBD.

काशिका

वेः कृञ इत्यनुवर्तते। विपूर्वात् करोतेरकर्मकादकर्मकक्रियावचनादात्मनेपदं भवति। विकुर्वते सैन्धवाः। साधु दान्ताः शोभनं वल्गन्ति इत्यर्थः। ओदनस्य पूर्णाश् छात्रा विकुर्वते। निष्फलं चेष्टन्ते इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

531 अकर्मकाच्च। वेः कृञ इत्यवेति। तथा च अकर्मकात् विपूर्वात् कृञ आत्मनेपदमित्यर्थः। `विकुर्वते' इत्येतद्व्याचष्टे – विकारं लभन्ते इति। लाभे विकारस्य कर्मत्वेपि धात्वर्थोपसङ्ग्रहादकर्मकत्वम्।

तत्त्वबोधिनी

–

Satishji's सूत्र-सूचिः

TBD.