Table of Contents

<<1-3-34 —- 1-3-36>>

1-3-35 अकर्मकाच् च

प्रथमावृत्तिः

TBD.

काशिका

वेः कृञ इत्यनुवर्तते। विपूर्वात् करोतेरकर्मकादकर्मकक्रियावचनादात्मनेपदं भवति। विकुर्वते सैन्धवाः। साधु दान्ताः शोभनं वल्गन्ति इत्यर्थः। ओदनस्य पूर्णाश् छात्रा विकुर्वते। निष्फलं चेष्टन्ते इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

531 अकर्मकाच्च। वेः कृञ इत्यवेति। तथा च अकर्मकात् विपूर्वात् कृञ आत्मनेपदमित्यर्थः। `विकुर्वते' इत्येतद्व्याचष्टे – विकारं लभन्ते इति। लाभे विकारस्य कर्मत्वेपि धात्वर्थोपसङ्ग्रहादकर्मकत्वम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.