TBD.
अकर्मकातिति वर्तते। उत् वि इत्येवं पूर्वात् तपतेरकर्मकत्रियावचनादात्मनेपदं भवति। उत्तपते। वितपते। दीप्यते इत्यर्थः। अकर्मकातित्येव। उत्तपति सुवर्णं सुवर्णकारः। वितपति पृथ्वीं सविता। स्वाङ्गकर्मकाच् च इति वक्तव्यम्। उत्तपते पाणिम्, उत्तपते पृष्ठम्। वितपते पाणिम्, वितपते पृष्ठम्। स्वाङ्गं च इह न पारिभाषिकं गृह्यते अद्रवं मूर्तिमत् स्वाङ्गम् इति। किं तर्हि? स्वम् अङ्गं स्वाङ्गम्। तेन इह न भवति, देवदत्तो यज्ञदत्तस्य पृष्ठम् उत्तपति इति। उद्विभ्याम् इति किम्? निष्टपति।
TBD.
–
519 उद्विभ्यां तपः। `अकर्मकादित्येवे'ति भाष्यम्। दीप्यते इति। दीप्तिमान् भवतीत्यर्थः। स्वाङकर्मकाच्चेति। `उद्विभ्यां तप' इत्यनुवर्तते। चकारादकर्मकसमुच्चयः। स्वाङ्गशब्दोऽत्र यौगिक इत्याह– स्वमङ्गमिति। सुवर्णमुत्तपतीति। अस्वाङ्गकर्मकत्वादकर्मकत्वाऽभावाच्च नात्मनेपदमिति भावः। स्वाङ्गशब्दोऽत्र न पारिभाषिकः, किन्तु यौगिक इत्यसय् प्रयोजनमाह— चैत्रो मैत्रसय् पाणिमुत्तपतीति। अत्र `अद्रवं मूर्तिम'दित्यादिपरिभाषितस्वाङ्गकर्मकत्वेऽपि स्वकीयाङ्गकर्मकत्वाऽभावान्नात्मनपदमिति भावः।
443 * स्वाङ्गकर्मकाच्चेति। चकारेणाऽकर्मकस्य सङ्ग्रहः। न त्वद्रवमिति। अन्यथा चैत्रो मैत्रस्येत्यादि वक्ष्यमाणं न सङ्गच्छेतेति भावः।
TBD.