Table of Contents

<<1-3-25 —- 1-3-27>>

1-3-26 अकर्मकाच् च

प्रथमावृत्तिः

TBD.

काशिका

उपातिति वर्तते। उपपूर्वात् तिष्ठतेरकर्मकातकर्मकक्रियावचनादात्मनेपदं भवति। यावद् भुक्तम् उपतिष्ठते। यावदोदनुम् उपतिष्ठते। भुक्तम् इति भावे क्तप्रत्ययः। भोजने भोजने सन्निधीयते इत्यर्थः। अकर्मकातिति किम्? राजानम् उपतिष्ठति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

518 अकर्मकाच्च। उपात्तिष्ठतेरिति। `उपान्मन्त्रकरणे इत्यतः, `समवप्रविभ्यः स्थः' इत्यतश्च तदनुवृत्तेरिति भावः।

तत्त्वबोधिनी

–

Satishji's सूत्र-सूचिः

TBD.