Table of Contents

<<1-3-20 —- 1-3-22>>

1-3-21 क्रीडो ऽनुसंपरिभ्यश् च

प्रथमावृत्तिः

TBD.

काशिका

क्रीडृ विहारे, एतस्मादनु सम् परि इत्येवं पूर्वादाङ्पूर्वाच् चाऽत्मनेपदं भवति। अनुक्रीडते। सङ्क्रीडते। परिक्रीडते। आङः खल्वपि, आक्रीडते। समा साहचर्यादन्वादिरुपसर्गो गृह्यते, तेन इह कर्मप्रवचनीयप्रयोगे न भवति, माणवकमनु क्रीडति। समो ऽकूजने इति वक्तव्यम्। सङ्क्रीडन्ति शकटानि। आगमेः क्षमायाम् आत्मनेपदं वक्तव्यम्। क्षमा उपेक्षा, कालहरणम् इति यावत्। आगमयस्व तावन्माणवकम्। शिक्षेर्जिज्ञासायाम्। विद्यासु शिक्षते। आशिषि नाथः। सर्पिषो नाथते। मधुनो नाथते। आशिषि इति किम्? माणवकमनुनाथति। हरतेर्गतताच्छील्ये। पैतृकमश्वा अनुहरन्ते। मातृकं गावो ऽनुहरन्ते। गतताच्छील्ये इति किम्? मातुरनुहरति। किरतेर्हर्षजीविकाकुलायकरणेष्विति वक्तव्यम्। अपस्किरते वृषभो हृष्टः। जीविकायाम् अपस्किरते कुक्कुटो भक्षार्थी। कुलायकरणे अपस्किरते श्वा आश्रयार्थी। हर्षादिषु इति किम्? अपकिरति कुसुमम्। आङि नुप्रच्छ्योरुपसङ्ख्यानम्। आनुते सृगालः। आपृच्छते गुरुम्। शप उपलम्भन इति वक्तव्यम्। वाचा शरीरस्पर्शनम् उपलम्भनम्। देवदत्ताय शपते। यज्ञदत्ताय शपते। उपलम्भने इति किम्? शपति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

512 क्रीडोऽनु। चादाङ इति। तथा च अनु सम परि आङ् एभ्यः परस्मात् क्रीडधातोरात्मनेपदमित्यर्थः। `अनोः कर्मपर्वचनीयान्ने'ति वार्तिकम्। तदिदं न्यायसिद्धमित्याह– उपसर्गेण समेति। `समोऽकूजने' इति वार्तिकम्। समः परस्मादकूजने विद्यमानात् क्रीडेरात्मनेपदमित्यर्थः। कूजने तु संक्रीडति चक्रमिति। कूजतीत्यर्थः। आगमेः क्षमायामिति। `आत्मनेपद'मिति शेषः। वर्तिकमिदम्। ण्यन्तस्येदं ग्रहणमिति। भाष्ये ण्यन्तस्यैवोदाहरणादिति भावः। आगमयस्व तावदिति। कंचित्कालं सहस्वेत्यर्थः। आङुपसर्गवशाद्गमधातुः क्षमायां वर्तते। `हन्त्यर्थाश्चे'ति चुरादिगणसूत्रेण स्वार्थे णिच्। चुरादेराकृतिगणत्वाद्वा। मा त्वरिष्ठा इति। फलितार्थकथनम्। `शिक्षेर्जिज्ञासाया'मितय्पि वार्तिकम्। धुनुषि शिक्षते इति। वैषयिके आधारे सप्मती। शकिः सन्नन्तः। `सनि मीमा' इति इस्। अभ्यासलोपश्च। तदाह- - धनुर्विषये इत्यादि। `सिक्ष विद्योपादाने' इत्यस्य तु नेह ग्रहणम्, अनुदात्तेत्त्वादेव सिद्धेरिति भावः। कथमिति। भूभृतां पतिं किमु न नाथसे = न याचसे इत्यर्थः। आशिषोऽप्रतीतेः कथमात्मनेपदमित्यर्थः। नाधसे इति पाठ\उfffद्मिति. तवर्गचतुर्थान्तोऽयम्। `आशिषि नाथः' इति नियमस्तु तवर्गद्वितीयान्तस्यैवेति भावः। `हरतेर्गते'त्यादि वार्तिकम्। `आत्मनेपद'मिति शेषः। गतं प्रकार इति। वृत्तमित्यर्थः। ताच्छील्यं = स्वभावानुसरणम्। गतिताच्छील्यमिति यावत्। गतेति पाठे भावे क्तः। पैतृकम\उfffदाआ इति। पैतृकं वृत्त\उfffदाआः स्वभावादनुसरन्तीत्यर्थः। मातृकं गाव इति। `अनुहरन्ते' इत्यनुषज्यते। मातुरनुहरतीति। अनुकरोतीत्यर्थः। अत्र सादृश्यमात्रं विवक्षितं, न तु गतिताच्छील्यमिति भावः। किरतेरिति वार्तिकम्। हर्षः = प्रमोदः, जीविका जीवनोपायो, भक्षणम्, कुलायकरणम् = आश्रयसंम्पत्तिः, एषु कृ?धातोरात्मनेपदमित्यर्थः। ननु कधातोर्विक्षेपार्थकस्य कथमेषु वृत्तिरित्यत आह- - हर्षादयो विषया इति। धात्वर्थत्वाऽभावेऽपि पदान्तरसमभिव्याहारगम्या इत्यर्थः। तत्रेति। तेषु हर्षादिष्वित्यर्थः। कारणमिति। तथा च हर्षमूलकत्वं विक्षेपस्य लभ्यते इति भावः। इतरे इति। जीविकाकुलायकरणे विक्षेपस्य साध्ये इति लभ्यते। हर्षादीनामेवं विधविषयत्वे सत्येवात्मनेपदमिति फलितम्, भाष्ये तथैवोदाह्मतत्वादिति भावः।

तत्त्वबोधिनी

438 *शिक्षेर्जिज्ञासायामिति। `शिक्ष विद्योपादाने' इत्यस्य नेह ग्रहणमनुदात्तेत्त्वादेवात्मनेपदसिद्धेः, किं तु शकेः सन्नन्तस्येति ध्वनयति- - धनुर्विषय इत्यादिना। नियमार्थमिति। नाथतेरनुदात्तेत्त्वं तु `अनुदात्तेतश्च हलादे'रिति युचि नाथन इति रूपसिद्ध्यर्थमिति भावः। मातुरनुहरतीति। सादृश्यमात्रमत्र विवक्षितं , न तु प्रकारताच्छील्यम्।

Satishji's सूत्र-सूचिः

TBD.