TBD.
तल्लक्षणश्चेदेव विशेषः इति वर्तते। नपुंसकानपुंसकमात्रकृते विशेषे ऽनपुंसकेन सहवचने नपुंसकं शिष्यते, एकवच् च अस्य कार्यं भवति अन्यतरस्याम्। शुक्लश्च कम्बलः, शुक्ला च बृहतिका, शुक्लम् च वस्त्रं, तदिदं शुक्लम्। तानि इमानि शुक्लानि। अनपुंसकेन इति किम्? शुक्लं च शुक्लं च शुक्लं च सुक्लानि। एकवच्च इति न भवति।
TBD.
–
922 नपुंसकम्। अन्यतरस्याङ्ग्रहणमेकवदित्यनेनैवान्वेति, आनन्तर्यात्, नत्वेकशेषेणेत्याह–तच्चेति। तल्लक्षण एवेति। नपुंसकत्वाऽनपुंसकत्वमात्रकृतवैरूप्यं चेदित्यर्थः। शुक्लः पटः शुक्ला शाटी शुक्ल वस्त्रमिति। पटशब्दसमभिव्याहाराच्छुक्लशब्दः पुंलिह्गः, शाटीशब्दसमभिव्याहारात्स्त्रीलिङ्गः, वस्त्रशब्दसमभिव्याहारे तु नपुंसकलिङ्गः, `गुणे शुक्लादयः पुंसि गुणिलिह्गास्तु तद्वती'त्यमरोक्तेरिति भावः। स च सा च तच्च तत्।अयं च इयं च इदं च इदम्। शुक्लश्च शुक्ला च शुक्लं च शुक्लम्। अत्र नपुंसकान्येव शिष्यन्ते एकवच्चा भवन्ति॥ तानीमानि शुक्लानीति। नपुंसकत्वे एकशेषे सति एकवत्त्वाऽभावे रूपाणि। न चेतरेतरयोगविवक्षायां द्विबहुवचनान्तयोः, समाहाद्वन्द्वविवक्षायामेकवचनस्य च सिद्धत्वादेकवदिति व्यर्थमिति वाच्यम्, अत एवैकशेषप्रकरणस्य समाहारेऽप्रवृत्तिज्ञापनात्। तेन ओदनश्च ओदनं च तयोः समाहारे ओदनमिति न भवति। ओदनशब्दो ह्रर्धर्चादिः। ओदनश्च ओदनं चेति इतरेतरयोगद्वन्द्वेऽपि ओदनमिति न, अनभिधानात्। एवंच। क्वचिदनभिधानस्यावश्याश्रयणीयतया द्वन्द्वमात्रस्यैकशेषविषयेऽनभिधानमाश्रित्य एकस्य शब्दस्यानेकार्थत्वं च#आश्रित्य एकशेषप्रकरणं भाष्ये प्रत्याख्यातम्।
–
TBD.