Table of Contents

<<1-2-57 —- 1-2-59>>

1-2-58 जात्याख्यायम् एकस्मिन् बहुवचनम् अन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

अशिष्यम् इति निवृतम्। जातिर् नाम अयम् एको ऽर्थः। तदभिधाने एकवचनम् एव प्राप्तम् अत इदम् उद्यते। जातेराख्या जात्याख्या। जात्याख्यायाम् एकस्मिन्नर्थे वहुवचनम् अन्यतरस्यां भवति। जात्यर्थो बहुवद् भवति इति यावत्। तेन तद्विशेषणानाम् अजातिशब्दानाम् अपि सम्पन्नादीनां बहुवचनम् उपपद्यते। सम्पन्नो यवः, सम्पन्ना यवाः। सम्पन्नो व्रीहिः, सम्पन्ना व्रीहयः। पूर्ववया ब्राह्मणः प्रत्युत्थेयः, पूर्ववयसो ब्राह्मणाः प्रत्युत्थेयाः। जातिग्रहणं किम्? देवदत्तः। यज्ञदत्तः। आख्यायाम् इति किम्? काश्यपप्रतिकृतिः काश्यपः। भवत्ययं जातिशब्दो न त्वनेन जातिराख्यायते। किं तर्हि? प्रतिकृतिः। एकस्मिनिति किम्? व्रीहियवौ। सङ्ख्याप्रयोगे प्रतिषेधो वक्तव्यः। एको ब्रीहिः सम्पन्नः सुभिक्षं करोति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

807 जात्याख्यायाम्। आकृत्यधिकरणमन्यायेन घटादिशब्दानां जातिवाचकत्वाज्जातेश्चैकत्वादेकवचनमेव स्यादित्यारम्भः। जातिशब्दे एकत्वे बहुवचनं वा स्यादित्यक्षरार्थः। तथा सति `ब्राआहृणा भोज्या' इत्यादौ विशेषणान्न स्यादित्याशङ्क्य एकस्मिन्नर्थे विद्यमानः शब्दो बहूनर्थान् वक्ति, एकार्थो बहुवद्भवतीति लभ्यते इत्यभिप्रेत्याह-एकोऽप्यर्थ इति। बहुत्वप्रयुक्तं कार्यं लभत इत्यर्थः।

तत्त्वबोधिनी

709 एकोऽप्यर्थो वा बहुबदिति। एवंच विशेषणादपि सिद्धमिति ध्वनयन्नुदाहरति— ब्राआहृणाः पूज्या इति। जात्याख्यायां किम्?। दोवदत्तो यज्ञदत्तः। एकस्मिन्किम्?। व्रीहियवौ। अस्मदो द्वयोश्च। चात् `एकस्मिन् बहुवचनमन्यतरस्या'मिति च वर्तते। तदेतदाह—एकत्वे द्वित्वे च विवक्षित इत्यादि।

Satishji's सूत्र-सूचिः

TBD.