TBD.
अशिष्यम् इति वर्तते। कालौपसर्जने च अशिष्ये। कस्मात्? अर्थस्य अन्यप्रमाणत्वात्। तुल्यशब्दो हेत्वनुकर्षणार्थः। अशिष्यविशेषणं चैतत्। कालौपसर्जने च तुल्यम् अशिष्ये भवतः। इह अन्ये वैयाकरणाः कालौपसर्जनयोः परिभाषां कुर्वन्ति। आन्याय्यादुत्थानादान्याय्याच् च संवेशनात्, एषो ऽद्यतनः कालः। अपरे पुनराहुः। अहरुभयतो ऽर्धरात्रम् , एषो ऽद्यतनः कालः इति। तथा उपसर्जनपरिभाषां कुर्वन्ति अप्रधानम् उपसर्जनम् इति। तत् पाणिनिराचार्यः प्रत्याचष्टे लोकतो ऽर्थवगतेः। यैरपि व्याकरणम् न श्रुतं ते ऽप्याहुरिदम् अस्माभिरद्य कर्तव्यम् इदं श्वः कर्तव्यम् इदम् हयः कृतम् इति। नैवं व्युत्पाद्यन्ते। तथाउपसर्जनम्, वयमत्र गृहे ग्रामे वा उपसर्जनम् अप्रधानम् इति गम्यते। य्श्च लोकतो ऽर्थः सिद्धः किं तत्र यत्नेन। यद्येवं पूर्वसूत्र एव कालौपसर्जनग्रहणम् कस्मान् न क्रियते? किमर्थो योगविभागः? प्रदर्शनार्थः। अन्यदप्येवं जातीयकमशिष्यम् इति। तथा च पूर्वाचार्याः परिभषन्ते मत्वर्थे बहुव्रीहिः, पूर्वपदार्थप्रधानो ऽव्ययीभावः, उत्तरपदार्थप्रधानस् तत्पुरुषह्, उभयपदार्थप्रधानो द्वन्द्वः इत्येवम् आदि, तदशिष्यम् इति।
TBD.
–
1280 कालोपसर्जने च। कालश्च उपसर्जनं चेति समाहारद्वन्द्वाद्विषयसप्तमी। `अशिष्य'मित्यनुवृत्तं भावप्रधानमाश्रीयते। कालविषये उपसर्जनविषये च यत्पूर्वाचार्याणां विशेषवचनं, तत्राप्यशिष्यत्वं समानमित्यर्थः। तद्विशेषवचनं विशदन्यञ्याचष्टे-अतीताया इत्यादिना।
–
TBD.