TBD.
अशिष्यम् इति वर्तते। प्रधानं समासे किंचित् पदं, प्रत्ययस्तव्यदादिः। ताभ्याम् अर्थवचनम् अर्थाभिधानम् अनेन प्रकारेण भवति इति पूर्वाऽचार्यैः परिभाषितम्। प्रधानौपसर्जने च प्रधानार्थं सह ब्रूतः, प्रक्र्तिप्रत्ययौ सहार्थं ब्रूतः इति। तत् पाणिनिराचर्यः प्रत्याचष्टे, अशिष्यम् एततर्थस्य अन्यप्रमाणत्वातिति। अन्यः इति शास्त्रापेक्षया लोको व्यपदिश्यते। शब्दैरर्थाभिधानम् स्वाभाविकं न पारिभषाकम् अशक्यत्वात्। लोकत एव अर्थावगतेः। यैरपि व्याकरणं न श्रुतं ते ऽपि राजपुरुषम् आनय इत्युक्ते राजविशिष्टं पुरुषम् आनयन्ति न राजनम् न अपि पुरुषमात्रम्। औपगवम् आनय इत्युक्ते उपगुविशिष्टम् अपत्यम् आनयन्ति, न उपगुं न अप्यपत्यमात्रं, न उभौ। यश्च लोकतो ऽर्थः सिद्धः किं तत्र यत्नेन।
TBD.
–
1279 अथ प्रसङ्गादन्यदपि पूर्वाचार्यपरिभाषितं निराचष्टे–प्रधानप्रत्ययार्थ। प्रत्ययार्थ इति। `प्रकृत्यर्थं प्रति प्रत्ययार्थः प्रधानं=विशेष्यम्, प्रकृत्यर्थस्तु तद्विशेषण'मित्येवं यत्पूर्वाचार्यवचनं तदपीत्यर्थः।
461 गन्धनाङ्गे इति। पूर्वविप्रतिषेधश्च `नवेति विभाषा' सूत्रे भाष्ये उक्तः। नित्यं कित्त्वमिति। `यमो गन्धने' इति पूर्वसूत्रेणेत्यर्थः।\त्
TBD.